________________
२६. ]
वृत्तमौक्तिक-द्वितीयखण्ड
[१-४
[विरुदावल्यां साधारणमतं चण्डवृत्तं चतुर्थप्रकरणम्]
तत्र
अथ साधारणं चण्डवृत्तम् स्वेच्छया तु कलान्यासः साधारणमिदं मतम् । न च सप्तदशादूर्ध्वं न वर्णत्रितयादधः ॥ १ ॥ क्रियते यर्गणैराद्यान्तैरेव सकलाः कलाः। -
प्रस्वादिवर्णसंयोगेप्यत्र वर्णस्य लाघवम् ॥ २॥ व्या०] अस्यार्थः-स्वेच्छया इत्यादि सुगमम् । तत्राक्षरनियममाह-न चेति । न च सप्तदशवर्णादूध्वं न वा वर्णत्रितयादधः कला कार्या इति शेषः । किञ्च नियमान्तरमाहक्रियत इति । आद्यात्-वर्णात् यैरेव गणैः कलाप्रारम्भः क्रियते तैरेव सकला अपेक्षिताः कलाः कर्तव्या इति शेषः । अपि च 'प्रस्वादीति' प्रस्वेति प्रादिशब्देन-ङ्ग-न स्फु-स्मि-स्म-क्वेत्यादीनां संयुक्तानां वर्णानां संयोगेपि सति अत्र छन्दःशास्त्रे तत्प्रकरणस्थले वा पूर्वपूर्ववर्णस्य लाघवं-लघुत्वं अवगन्तव्यमित्युत्सर्गः। तत्र अक्षरे, यथा
अङ्गण रिङ्गण। इत्यादि । संयुक्ते, यथा
प्रणयप्रवण । इत्यादि । एवं गणान्तरेपि बोद्धव्यम् । चतुर्वर्ण सर्वलघौ यथा
विधुमुख कृतमुख। इत्यादि । एवं प्रस्तारान्तरेपि सर्वलघ्वादिस्थले स्वेच्छातः कलान्यासोद्रष्टव्यः । मात्रावृत्ते, यथा
चतुष्कलद्वयेनापि कला जगणवर्जिताः । [व्या०] कर्तव्या इति शेषः । यथा
__ तारापतिमुख सारायितमुख । इत्यादि।
प्रस्तारद्वितयेप्येवं कलान्यासः स्वतः स्मृतः ॥३॥ [व्या०] स्वतः-स्वेच्छातो भवतीति स्मृत इत्यर्थः ॥३॥
साधारणमतं चैतद् दिङ्मात्रमिह दर्शितम् ।
विशेषस्तत्र तत्रापि नोक्तो विस्तारशङ्कया ।। ४ ।। [व्या०] तत्र तत्रापीति-तत्तत्प्रस्तारेषु इत्यर्थः ॥४॥
इति विरुदावल्यामवान्तरं साधारणमतं चण्डवृत्त-प्रकरणं चतुर्थम् ।।