SearchBrowseAboutContactDonate
Page Preview
Page 390
Loading...
Download File
Download File
Page Text
________________ प० ३-४ ] ६. विरुदावली - प्रकरणम् [ २५७ संलग्नौ भौ-भगणौ च यदि स्तः । यत्र चैवंविधं वसुसंख्यं पदं भवेत्, सा विदग्धपूर्वा-विदाधशब्दपूर्वा सम्पूर्णा प्रथमलक्षितलक्षणविलक्षणा अतिमनोहरा विदग्धत्रिभङ्गीकलिका स्यात् इत्यन्वयः । अष्टपदत्वमेव पूर्वोक्तायाः सकाशात् वैलक्षण्यं स्फुटमेव लक्षयति । एतदेव चास्याः सम्पूर्णत्वमिति । किञ्च, आद्यन्तयोः कलिकाया इति शेषः, प्राशीःपद्ययुक्ता-पाशीःपद्याभ्यां युक्ता आशीर्वादयुक्तपद्याभ्यां संयुक्ता इत्यर्थः । प्राद्यन्तपदसाहित्यं च तत्कलिकायुक्तेषु पूर्वोक्तेषु सर्वेषु चण्डवृत्तेषु ज्ञेयं सुधीभिरित्युपदेशरहस्यं, अग्रेपि तथैव वक्ष्यमाणत्वादिति । इयमेव च खण्डावलीति व्यपदिश्यते, तथा चाग्रे तथैव लक्षयिष्यमाणत्वादिति । यथा उद्वेलत्कुलजाभिमानविकचाम्भोजालिशुभ्रांशवः' __ केलीकोपकषायिताक्षिललनामानाद्रिदम्भोलयः । कन्दर्पज्वरपीडितव्रजवधूसन्दोहजीवातवो, जीयासुर्भवतश्चिरं यदुपते स्वच्छाः कटाक्षच्छटाः ॥' चण्डीप्रियनत चण्डीकृतबलरण्डीकृतखलवल्लभ वल्लव पट्टाम्बरधरं भट्टारक बककुट्टाक ललितपण्डितमण्डित नन्दीश्वरपति-नन्दीहितभर संदीपितरससागर नागर अङ्गीकृतनवसङ्गीतक वर-भङ्गीलवहृतजङ्गमलङ्गिम गोत्राहितकर गोत्राहितदय गोत्राधिपधृतिशोभनलोभन वन्यास्थितबहुकन्यापटहर धन्याशयमणिचोर मनोरम शम्पारुचिपट सम्पालितभव-कम्पाकुलजन फुल्ल समुल्लस उर्वीप्रियकर खर्वीकृतखल दर्वीकरपतिगर्वितपर्वत वीर! पिष्ट्वा सङग्रामपट्टे पटलमकुटिले दैत्यगोकण्टकानां, क्रीडालोठीविघट्टैः स्फुटमरतिकरं नैचिकीचारकाणाम् । वृन्दारण्यं चकाराखिलजगदगदङ्कारकारुण्यकारो', यः सञ्चारोचितं वः सुखयतु स पटुः कुञ्जपट्टाधिराजः । पिच्छलसद्घननीलकेश चन्दनचर्चितचारुवेश खण्डितदुर्जनभूरिमाय, मण्डितनिर्मलहारिकाय। धीर ! १. क. शुभ्रांशनः। २. गोवि. पद्यं नास्ति । ३. क. पटलमकुलिते। ४. गोवि. चारुकाणाम् । ५. गोवि. कारुण्यधारः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy