SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ २५८ ] वृत्तमौक्तिक - द्वितीयखण्ड [प० ४-६ गीर्वाणं स्फुटमखिलं विवर्द्धयन्तं, निर्वाणं दनुजघटासु संघटय्य । कुर्वाणं व्रजनिलयं निरन्तरोद्यत् पर्वाणं मुरमथन स्तुवे भवन्तम् ॥ द्वितीया सम्पूर्णा सविरुदा विदाधत्रिभङ्गी कलिका ।। एते चण्डवृत्तस्य गर्भितान्तर्गताः प्रभेदाः । अथ मिश्रिताः तत्र ३. मिश्रकलिका. -मिश्रिता चाथ कथ्यते ॥ ४ ॥ आद्यन्ताशी:पद्ययुक्ता गद्याभ्यां चापि संयुता। मध्यतः कलिका कार्या सदण्डर्भनजैर्गणः ।।५।। विरुदेनान्विता चापि रमणीयतरा मता। षट्पदा सापि विज्ञेया छन्दःशास्त्रविशारदः ॥ ६ ॥ [व्या०] अस्यार्थः-प्रथ-विदग्धत्रिभङ्गीकलिकानन्तरं मिश्रिता-मिश्राकलिका कथ्यतेउच्यत इत्यर्थः। तां विशिनष्टि-कलिकाया आद्यन्तयोराशीःपद्याभ्यां युक्ता, तथा प्राद्यन्तयोरेव गद्याभ्यां च संयुता मध्यतस्तयोरित्यर्थः, कलिका कार्या । कलिकां विशिनष्टि - सदण्ड:- दण्डो लघुः तत्सहितः भनजः-भगणनगणजगणरन्विता-संयुक्ता इत्यर्थः ॥४-५॥ __तथा विरुदेन चाप्यन्विता। अतएवातिरमणीयतरा मता-सम्मता। साऽपि च छन्दःशास्त्रविशारदः षट्पदा विज्ञेया इत्युपदिश्यत इति वाक्यार्थः । विरुदसाहित्यं च विदग्धत्रिभङ्गीकलिकालक्षणकारिकायामप्यवधेयं सुधीभिरिति शिवम् ॥६॥ अत्र चादौ प्राशीःपद्य, ततो गद्य, ततश्च षट्पदीकलिका, तदनन्तरमपि गद्य, ततो विरुदं, अनन्तरमपि गद्यमेव । ततोपि विरुदं धीरं सम्बोधनोपलक्षितं, सर्वान्ते चाशीःपद्यम, इति क्रमेणोक्तलक्षणोपलक्षिता मिश्रा कलिका कार्या, इति फलितोऽर्थः । पथा उदञ्चदतिमञ्जुलस्मितसुधोमिलीलास्पदं, तरङ्गितवराङ्गनास्फुरदनङ्गरङ्गाम्बुधिः । दगिन्दुमणिमण्डलीस लिलनिझरस्यन्दनो, मुकुन्द मुखचन्द्रमास्तव तनोतु शर्मातुलम् । १. क. लध्वः। २. गोवि. तनोति शर्माणि नः।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy