SearchBrowseAboutContactDonate
Page Preview
Page 389
Loading...
Download File
Download File
Page Text
________________ २५६ ] वृत्तमौक्तिक - द्वितीयखण्ड [ प० ३-४ शिखरिवरदरीनिशान्तं प्रयान्तं सकान्तं विभान्तं ... नितान्तं च कान्तं प्रशान्तं कृतान्तं द्विषाम् । - दनुजहर भजाम्यनन्तं सुदन्तं नुदन्तं दृगन्तं हसन्तं 'भजन्तं चरन्तं' भवन्तं सदा । वीर ! पीत्वा बिन्दुकणं मुकुन्द भवतः सौन्दर्यसिन्धोः सकृत् ___ कन्दर्पस्य वशं गता विमुमुहुः के वा न साध्वीगणाः । दूरे राज्यमयन्त्रितस्मितकला भ्रू वल्लरीताण्डवक्रीडापाङ्गतरङ्गितप्रभृतयः कुर्वन्तु ते विभ्रमाः ॥ चारुतट - रासनट गोपभट पीतपट पद्मकर दैत्यहर कुञ्जचर वीरवर नर्ममय कृष्ण जय नाथ ! संसाराम्भसि दुस्तरोमिंगहने गम्भीरतापत्रयीकुम्भीरेण गृहीतमुग्रगतिना' क्रोशन्तमन्तर्भयात् । दीप्रेणाद्य सुदर्शनेन बिबुधक्लान्तिच्छिदाकारिणा, चिन्तासन्ततिरुद्ध मुद्धर हरे मच्चित्तदन्तीश्वरम् । इति सविरुदा दण्डकत्रिभङ्गी कलिका १॥ २. अथ सम्पूर्णा विदग्धत्रिभङ्गी कलिका प्रथापरा सम्पूर्णा विदग्धत्रिभङ्गी कलिका लक्ष्यते । यथा युग्मे भङ्गस्तनौ त्र्युक्तो भौ चान्ते यत्र मित्रितौ । वसुसंख्यं परे ह्यत्र' पदे सा स्यात् त्रिभङ्गिका ।। ३ ।। विदग्धपूर्वा सम्पूर्णा कलिकाऽतिमनोहरा । प्राद्यान्ताशी:पद्ययुक्ता[व्या०] एतद् युक्तं भवति । यत्र पदे-यस्यां कलिकायां वा युग्मे-द्वितीयाक्षरे भङ्गो भवति । तथा तनौ-तगणनगणौ स्तः । तौ च युक्तौ-वारत्रयमुक्तौ चेत् । अन्ते–तना त्रयान्ते मित्रितौ १. गोवि. वसन्तं भजन्तं । २. गोवि. मतिना। ३. ख. भवेद् यत्र। ४. ख तनत्रयान्ते।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy