SearchBrowseAboutContactDonate
Page Preview
Page 388
Loading...
Download File
Download File
Page Text
________________ [ २५५ प० १ - २] १. विरुवावली - प्रकरण mmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmmm [ विरुवावल्यां तृतीयं त्रिभङ्गी-कलिकाप्रकरणम् ] १. अथ दण्डकत्रिभङ्गी कलिका अथ त्रिभङ्गीकलिकासु दण्डकत्रिभङ्गीकलिकाभितं तद्गतैव' लक्ष्यते । तद्भङ्गाना बाहुल्यादेवास्याः कलिकायाः दण्डकत्रिभङ्गीति संज्ञा । अथाऽस्या लक्षणं सम्यक् सोदाहरणमुच्यते । भङ्गबाहुल्यतश्चास्या संज्ञाप्यान्वर्थिका' भवेत् ।।१।। यथा नगणयुगलादनन्तरमिह चेद् रगणा भवन्ति रन्ध्रमिताः । विरुदावल्यां कलिका कथितेयं दण्डकत्रिभङ्गीति ।। २ ॥ [व्या०] रन्ध्राणि-नव कथिता इत्यत्र तदित्यध्याहारः। भङ्गबहुत्वाच्चास्याः दण्डकत्रिभङ्गी संज्ञेति फलितोऽर्थः । अत्र च पदरचनायां पदविन्यासः स्वेच्छया भवतीति सिंहावलोकनरीत्यावगन्तव्यम् । यथा चित्रं मुरारे सुरवैरिपक्ष: स्त्वया समन्तादनुबद्धयुद्धः। अमित्रमुच्चैरविभिद्य भेदं, मित्रस्य कुर्वन्नमितं प्रयाति ॥ . श्रितमघजलधेर्वहितं चरित्रं सुचित्रं विचित्रं फणित्रं समित्रं पवित्रं लवित्रं रुजाम् । जगदपरिमितप्रतिष्ठं पटिष्ठं बलिष्ठं गरिष्ठं "म्रदिष्ठं सुनिष्ठं लघिष्ठं दविष्ठं धियाम् । निखिलविलसितेऽभिरामं सरामं मुदा मञ्जुदाम नभामं ललामं धृतामन्दधामं नये । मधुमथनहरे मुरारे पुरारेरपारे ससारे विहारे सुरारेरुदारे च दारे प्रभुम् । ' स्फुरितमिनसुतातरङ्गे विहङ्गेशरङ्गेण गङ्गे ऽष्टभङ्गे भुजङ्गेन्द्रसङ्गे सदङ्गेन भोः । . १. ख. अन्तर्गतैव। २. क. तद्भाना। ३. ख. संज्ञाप्याथिको। ४. गोवि. कुर्वन्नमृतं । ५-५. गोवि. वरिष्ठं म्रदिष्ठं सुनिष्ठं दविष्ठं ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy