________________
प० ३६
]
६. विरुदावली - प्रकरण
ग्रथित शिखिचन्द्र कस्फुट कुटिलकुन्तल श्रवणतट'सञ्चरन्मणिमकरकुण्डल प्रथित तव ताण्डवप्रकटगतिमण्डल द्विजकिरणधोरणीविजित सिलतण्डुल स्फुरित तव दाडिमीकुसुमयुतकर्णक छदनवरकाकलीहृतचटुलतर्णक प्रकटमिह मामके हृदि वससि माधव स्फुरसि ननु संततं सकलदिशि मामव
धीर !
पुंनागस्तबकनिबद्ध केशजूट:,
कोटरीकृतवर के किपक्षकूटः ।
पायान्मां मरकतमेदुरः स तन्वा,
कालिन्दीतटविपिनप्रसूनधन्वा । प्रिय जय भर्गस्तुत रस सर्गस्थिर निज-वर्ग प्रवणित धीर !
दनुजवधू वैधव्यव्रत दीक्षा शिक्षणाचार्यः ।
स जयति विदूरपाती मुकुन्द तव शृङ्गनिर्घोषः । सविरुवं गुच्छाख्यं चण्डवृत्तम् ।३३।
३४. अथ कुसुमञ्चण्डवृत्तम्
चतुभिर्नगणैर्यत्र पदं यमकितं भवेत् ।
अनन्तनेत्रप्रमितं कुसुमं तत्प्रकीर्तितम् ॥ ३६ ॥
[ २५३
[ व्या०] श्रनन्तं - शून्यं नेत्रं -द्वयं ताभ्यां प्रमितं - गणितं पदं यत्र तत्, विंशतिपदमित्यर्थः । शेषं सुगमम् ॥३६॥
यथा
कुसुमनिकरनिचितचिकुर ' नखरविजितमणिजमुकुर सुभटपटमरमितमथुर विकटसमरनटनचतुर
१. गोवि. श्रवणनट- । २. गोवि. प्रथितनव- । ३. गोवि. स्फुरितवरवाडिमीकुसुमयुग४-४. गोवि. पंक्तिद्वयं नास्ति । ५. क. नत्वा । ६. गोवि. रचितचिकुर ।
कर्णक |