SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ प०३६ ] ६. विरुदावली - प्रकरण [ २५१ ३२. अथ मञ्जर्यां कोरकश्चण्डवृत्तम् मञ्जरी चात्र पूर्वं श्लोको लेखस्तदनन्तरम् । कोरकाख्यं चण्डवृत्तं पदसंख्यानखैर्य दि ।। ३६ ॥ व्या०] अस्यार्थः- अभिधीयत इत्यर्थः । प्रथमतो मञ्जरी ततः कलिका भवतीति लौकिकानां प्रसिद्धेः । तत्र चतुभिः भगणैः शुद्धराद्यन्तयमकाङ्कितः कोरकाख्यं चण्डवृत्तं । यदि पदस्य प्राद्यन्तयोर्यमकाशितैः-यमकेन अङ्कितैः सयमकैरिति यावत्, शुद्धः-शृङ्खलारहितैश्चतुभिः भगणैः-प्रादिगुरुकैर्गणैः पदम् । अथ च पदसंख्या यदि नखैः-विंशत्या भवति, तदा कोरकाख्यं चण्डवृत्तं भवति । शृङ्खलाराहित्यमेवात्र पूर्वस्माद् भेदं गमयतीति ॥३६॥ . तत्र प्रथमं मञ्जरी, यथानवशिखिशिखण्डशिखर चित्रशस्त्रीव। क्षोभयति कृष्ण वेणी श्रेणीरेणीदृशां भवतः ।। कोरकम, यथा मानवतीमदहारिविलोचन दानवसञ्चयघूकविरोचन | डिण्डिमवादिसुरालिसभाजित चण्डिमशालिभुजार्गलराजित दीक्षितयोवतचित्तविलोभनवीक्षित सुस्मितमार्दवशोभन पर्वतसम्भृति निर्धं तपीवरगर्वतमःपरिमुग्धशचीवर रञ्जितम परिस्फुरदम्बर गजितकेशिपराक्रमडम्बर कोमलताङ्कितवागवतारक सोमललाममहोत्सवकारक हंसरथस्तुतिशंसितवंशक कंसवधूश्रुतिनुन्नवतंसक रङ्गतरङ्गितचारुदृगञ्चल सङ्गतपञ्चशरोदयचञ्चल लुञ्चितगोपसुतागणशाटक सञ्चितरङ्गमहोत्सवनाटक तारय मामुरुसंसृतिशातन १. क. शिखण्डिशिखराः। २. गोवि. पर्वतसंधृति-। ३. ख. शशीवर ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy