________________
प० ३४ - ३५]
६. विरुदावली-प्रकरण
[ २४६
भासुरकुटिलकचार्पितचन्द्रक चन्द्रकदम्ब रुचाभ्यधिकानन काननकुञ्जगृहस्मरसङ्गर सङ्गरसोधुरबाहुभुजङ्गम जङ्गमनवतापिञ्छनगोपम गोपमनीषितसिद्धिषु दक्षिण दक्षिणपाणिगदण्डसभाजित भाजितकोटिशशाङ्कविरोचन रोचनया कृतचारुविशेषक शेषकमलभवसनकसनन्दननन्दनगुण मा नन्दय सुन्दर 'सुन्दर मामव भीतिविनाशन'
वीर ! भवतः प्रतापतरणावुदेतुमिह लोहितायति स्फीते । दनुजान्धकारनिकराः शरणं भेजुर्गुहाकुहरम् ॥
पुलिनधृतरङ्ग-युवतिकृतसङ्ग मदनरसभङ्ग-गरिमलसदङ्ग
धीर ! पशुषु कृपां तव दृष्ट्वा दुष्ट महारिष्टवत्सकेशिमुखाः । दर्प विमुच्य भीताः पशुभावं भेजिरे दनुजाः ।।
सविरुदं बकुलभासुरमिदम् ॥३०॥ ३१. अथ बकुलमङ्गलञ्चण्डवृत्तम्
-अन्तो बकुलमङ्गलम् ।। ३४ ॥ चतुभिर्भगणरेव हयैर्यत्र पदं भवेत् ।
रसेन्दुकलकं तत्र तृतीये शृङ्खलास्थिता ।। ३५ ।। [व्या०] कोऽर्थः ? उच्यते । अन्तः-बकुलभासुरानन्तरं बकुलमङ्गलं-बकुलमङ्गलाख्यं चण्डवृत्तमुच्यत इति शेषः ॥३४॥
यत्र चतुभिः-चतुःसंख्याकैः केवलरादिगुरुकैः-भगणैरेव हयैः-चतुष्कलः रसेन्दुकलकषोडशमात्रं पदं भवेत् । किञ्च, तत्र-तस्मिन्पदे तृतीये अर्थात् तृतीये भगणे शृङ्खलास्थिता चेद्
१. गोवि. चन्द्रकलाप-। २-२. गोवि. पंक्तिरियं नास्ति। ३. गोवि. नून ।