________________
५० ३१ - ३२]
& विरुदावली - प्रकरण
[ २४५
२७. अथ चम्पकञ्चण्डवृत्तम् । द्वितीयो मधुरो यत्र श्लिष्ट: क्वापि भवेद् यदि । भनौ षडक्षरं चैतत् स्वेच्छातः पदकल्पनम् ॥ ३१ ॥
चम्पकं चण्डवृत्तं स्यात्व्या०] अस्यार्थः-'यत्र द्वितीयो वर्णो मधुरः-परसवर्णो भवेत् । क्वापि-कुत्रचित् यदि श्लिष्टोपि स्यात् ।। तत्र गणनियममाह- भनौ-भगणनगणौ गणौ भवेताम् । षडक्षरं चैतत् पदम् । किञ्च, पदकल्पनं स्वेच्छातो यत्र भवति तदेतच्चम्पकं नाम चण्डवृत्तं स्यात् । यथा
सञ्चलदरुण -सुन्दरनयन कन्दरशयन वल्लवशरण पल्लवचरण मङ्गलघुसृणपिङ्गलमसृण चन्दनरचन नन्दनवचन खण्डितशकट दण्डितविकट-गर्वितदनुज पवितमनुज रक्षितधवल लक्षितगवल पन्नगदलन सन्नगकलन बन्धुरवलन सिन्धुरचलन कल्पितसदन - जल्पितमदन मञ्जुलमुकुट वञ्जुललकुट-रञ्जितकरभ गजितशरभ-मण्डलवलित कुण्डलचलित-सन्दितलपन नन्दिततपन-कन्यकसुषम धन्यककुसुम -गर्भक धरण - दर्भकशरण तर्णकवलित वर्णकललित शं वरवलय
डम्बर कलय
देव
१-१. ख. प्रतो नास्ति पाठः। २. गोवि. संचलदरुणचञ्चलकरुणसुन्दरनयन । ३. क.
वदन । ४. गोवि. मदन। ५. गोवि. सदन। ६. गोवि. वन्यककुसुम । ७. गोवि.