________________
२४६ ]
वृत्तमौक्तिक - द्वितीयखण्ड
दानवघटालवित्रे धातुविचित्रे जगच्चित्रे । हृदयानन्दचरित्रे रतिरास्तां वल्लवीमित्रे । रिङ्गदुरुभृङ्ग-तुङ्गगिरिशृङ्ग
शृङ्गरुतभङ्ग-सङ्गधृतरङ्ग
वीर !
त्वमत्र चण्डासुरमण्डलीनां रण्डावशिष्टानि गृहाणि कृत्वा पूर्णान्यकार्षीर्व्रजसुन्दरीभिर्वृन्दाटवी पुण्ड्रक मण्डपानि ॥
सविरुदं चम्पकमिदम् ॥२७॥
२८. श्रथ वञ्जुलञ्चण्डवृत्त म्
- वञ्जुलं नजला यदि ।
पञ्चमो मधुरस्तत्र पदं मुनिमितं मतम् ॥
[ प० ३२
जय जय सुन्दर - विहसित मन्दरविजितपुरन्दर निजगिरिकन्दररतिरसशन्धर मणियुतकन्धर
मणिमन्दिर हृदि वलदिन्दिर
[ व्या०] श्रयमर्थः -- यदि नजला:-नगणजगणलघवः स्युः । किञ्च तत्र पदे पञ्चमो वर्णा मधुरः - परसवर्णो भवति । पदमपि मुनिभिः - सप्तभिर्वर्णे मितं - परिमितं यत्र तत् वञ्जुलंवञ्जुलाख्यमतिमञ्जुलं चण्डवृत्तं मतं - सम्मतमित्यर्थः । पदकल्पनं तु पूर्ववत् । यथा
गतिजित सिन्धुर परिजनबन्धु पशुपतिनन्दन तिलकितचन्दन विधिकृतवन्दन पृथुहरिचन्दनपरिवृतनन्दन' - मधुरिमनिन्दन - मधुवन वन्दित - कुसुम सुगन्धितवनवररञ्जित रतिरभसञ्जित शिखिदल कुण्डल - सहकृतभण्डिल नवसित तण्डुल-जरिदमण्डल रति रणपण्डित वरतनुभण्डित नखपदमण्डित दशनविखण्डित
धीर !
३२ ॥
१. पंक्तिरियं नास्ति ख. प्रतौ । २. क. मधुरिमनन्दन । ३. गोवि. रतिभरसञ्जित ।