________________
२४४ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[प० २६ - ३०
जितरतिमल्लीमद भर सल्लीलतिलक कल्या-तनुशततुल्याहवरसकुल्या-चटुतिलखल्याप्रमथन कल्याणचरित धीर ।
गोपीः सम्भृतचापल-चापलताचित्रया भ्रुवा भ्रमयन् । विलस यशोदावत्सल वत्सलसद्धेनुसंवीत ।
५ वल्लवललनालीलावलयित
पल्लवरचना मल्लीविलसित वल्लभकलनाखेलासमुदित
तल्लवघटना नीलालकवृत । तव चरणाम्बुजमनिशं विभावये नन्दगोपाल । गोपालनाय वृन्दावनभुवि यद् रेणुरञ्जिता धरणी ।*
सविरुदं फुल्लाम्बुजमिदम् ॥२६॥
१ *-*टिप्पणी-सङ्कतान्तर्गतांशस्य स्थाने निम्नांशो वर्तते गोविन्दविरुदावल्याम् । परञ्च
वृत्तमौक्तिककृता चायमंशः पल्लवितञ्चण्डवृत्तस्य शिथिलद्वितीयवर्णोदाहरणरूपेण स्वीकृतः, स च २३३ पृष्ठेऽवलोकनीयो विद्वद्भिः ।
वल्लवलीलासमुदयसमुचित पल्लवरागाधरपुटविलसित वल्लभगोपीप्रवरिणत मुनिगणदुर्लभकेलीभरमधुरिमकण मल्लविहाराद्भुततरुणिमधर फुल्लमृगाक्षीपरिवृतपरिसर चिल्लिविलासापितमनसिजमद मल्लिकलापामलपरिमलपद रल्लकराजीहरसुमधुरकल हल्लकमालापरिवृतकचकुल
वोर ! वल्लवललनावल्ली-करपल्लवशीलितस्कन्धम् । उल्लसितः परिफुल्लं भजाम्यहं कृष्णकङ्कल्लिम् ॥