________________
६. विरुदावली
अम्बुजकिरण विम्बक खञ्जनपरिचलदम्बक चुम्बितयुवतिकदम्बक कुन्तललुठित कदम्बक
वीर ! प्रेमोद्वेल्लित वल्गुभिर्वलयितस्त्वं वल्लवीभिर्विभो ! रागोल्लापितवल्लकी विततिभिः कल्याणवल्लीभुवि । सोल्लुण्ठं मुरलीकलापरिमलं' मल्लारमुल्लासयन्, बाल्येनोल्लसिते दृशौ मम तडिल्लीलाभिरुत्फुल्लय ।
सविरुदमिदमरुणाम्भोरुहम् | २५ |
प० २६- ३० ]
1
तत्र प्रभेदा:---
प्रकरण
एते कादिपञ्चवर्गोत्थापिताः पञ्चचण्डवृत्तस्य महाकलिकारूपस्य सङ्कीर्णाः
प्रभेदाः ।
अथ गर्भिताः
२६. फुल्लाम्बुजञ्चण्डवृत्तम्
षष्ठे भङ्गश्च मैत्री च नयावेव गणौ यदि ।
अन्तस्थस्य तृतीयेन यदि मैत्रीकृता भवेत् ॥ २६ ॥
स्वरोपस्थापिता श्लिष्टा रमणीयतरा क्वचित् । फुल्लाम्बुजं तदुद्दिष्टं चण्डवृत्तं सुपण्डितैः ॥ ३० ॥
[ २४३
[व्या०] कोऽर्थः ? उच्यते - यदि नयावेव-नगणयगणावेव गणौ स्तः । षष्ठे वर्णे भङ्गो मैत्री च यदि अन्तस्थस्य यवर्गस्य तृतीयेन लकारेण कृता भवेत् । सापि क्वचित् स्वरोपस्थापिता श्लिष्टा च स्यात् । तदा एतद्देशादृतमिदं नामतः फुल्लाम्बुजं इति प्रसिद्धं सुपण्डितैश्चण्डवृत्तमुद्दिष्टं - कथितमित्यर्थः । यथा
व्रजपृथुवल्ली' - परिसरवल्लीवनभुवि तल्लीगण है त मल्लीमनसिजभल्ली-जित शिवमल्लीकुमुदमतल्लीषिगत झिल्ली
परिषदि हल्ली - सकसुखझिल्ली ३ - रत परिफुल्ली - कृतचल चिल्ली
१. गोवि . कलाभिरमलं । २. गोवि. पल्ली । ३. गोवि, झल्ली ।