________________
प० २६ - २८ ]
९. विरुदावली-प्रकरण
[ २३७
कृपय सपङ्के
किल मयि धीर ! उत्तङ्गोदयशृङ्गसङ्गमजुषां बिभ्रत्पतङ्गत्विषां, वासस्तुङ्ग'मनङ्गसङ्गरकलाशौटीर्यपारङ्गतः । स्वान्तं रिङ्गदपाङ्गङ्गिभिरलं गोपाङ्गनानां किल', भूयास्त्वं पशुपालपुङ्गव दृशोरव्यङ्ग रंगाय मे ।।
विलसदलिकगतकुङ कुमपरिमल कटितटधृतमणिकिङ्किणिवरकल नवजलधरकुललङ्गिमरुचिभर मसृणमुरलिकलभङ्गिमधुरतर
धीर ! अवतंसितम मजरे तरुणीनेत्रचकोरपञ्जरे । नवकुङ कुमपुञ्जपिञ्जरे रतिरास्तां मम गोपकुञ्जरे।
पङ्करुहं सविरुदमिदम् । २१ । अथ सितकजादयश्चण्डवृत्तस्य चत्वारो भेदा लक्ष्यन्ते । तत्र
एतावेव गणौ यत्र भङ्गो मैत्री च पूर्ववत् ।
क्रमेण चादिवगैस्तु रचिता साऽपि पूर्ववत् ।। २६ ।। व्या०अस्यार्थः--यत्र एतौ-नगणयगणौ एव-पूर्वोक्तौ गणौ भवतः । किञ्च, भङ्गो मैत्री च पूर्ववत्, षष्ठाक्षर एव भवतीत्यर्थः । एतच्च षष्ठवर्णस्य मधुरत्वमपि लक्षयतीति बोद्धव्यम् । पूर्ववद् इत्यनेनैवोपस्थापितत्वात् । किञ्च, साऽपि मैत्री चादि-चतुभिर्वर्गः पूर्ववत् यथालाभं रचिता चेद् भवति । अपि शब्दात् स्वरान्तरेणाभेदेपि सति तदा तत्तद्भदो भवतीत्यपि बोद्धव्यम् । षडक्षरमेव पदम् । पदविन्यासोऽपि पूर्ववदेवेति च ॥२६॥ तद्भेदचतुष्टयमाह सार्द्धन श्लोकेन
सितकजं तथा पाण्डूत्पलमिन्दीवरं तथा। अरुणाम्भोरुहञ्चेति ज्ञेयं भेदचतुष्टयम् ॥ २७ ॥
विरुदेन समं चापि चण्डवृत्तस्य पण्डितैः ।। [व्या०] सितकज, पाण्डूत्पलं, इन्दीवरं, अरुणाम्भोरुहं चेति सविरुदचण्डवृत्तस्य भेदचतुष्टयं पण्डितः-अधीतछन्दःशास्त्रनिपुणमतिभिर्जेयमित्युपदिश्यते ।
उदाहरणमेतेषां क्रमेणैवोच्यतेऽधुना ।। २८ ।।
१. गोवि. स्तुल्य। २. गोवि. गिलन् ।