SearchBrowseAboutContactDonate
Page Preview
Page 368
Loading...
Download File
Download File
Page Text
________________ ५० २४-२५ ] ६. विरुदावली - प्रकरणम् [ २३५ कुन्तललुठदुरुरङ्गण कुङ कुमरुचिलसदम्बर लङ्गिमपरिमलडम्बर नन्दभवनवरमङ्गल। मञ्जुलघुसृणसुपिङ्गल हिगुलरुचिपदपङ्कज सञ्चितयुवतिसदङ्गज' सन्ततमृगपदपङ्किल संतनु मयि कुशलङ्किल वीर ! गिरितटीकुनटीकुलपिङ्गले खलतृणावलिसञ्ज्वलदिङ्गले । प्रखरसङ्ग रसिन्धुतिमिङ्गिले मम रतिर्वलतां व्रजमङ्गले । जय चारुदाम-ललनाभिराम जगतीललाम रुचिहारिवाम' वीर ! उन्दितहृदयेन्दुमणिः पूर्णकलः कुवलयोल्लासी । परितः शार्वरमथनो विलसति वृन्दाटवीचन्द्रः । इति तुरगः ॥२०॥ एते महाकलिकारूपस्य चण्डवृत्तस्य विंशतिः शुद्धाः प्रभेदाः । अथ सङ्कीर्णाः ___२१. पङ्करुहं चण्डवृत्तम् पङ्केरुहं नयौ षष्ठे भङ्गो मैत्री च दृश्यते ।। २४ ।। सा चेत् कवर्गरचिता यथा लाभमनुक्रमात् । तथैव षष्ठो मधुरः स्वरभेदेऽपि तद्भिदा ।। २५ ।। ध्या०] एतस्यार्थः-यत्र नयो-नगणयगणी भवतः । तथा षष्ठे वर्णे भंगो मैत्री च दृश्यते । किञ्च, सा मैत्री चेत् कवर्गेण यथालाभमनुक्रमात् रचिता स्यात् । तथा षष्ठो वर्णो मधुर:परसवर्णो यदि स्यात् तदा पङ्करुहं नाम चण्डवृत्तं भवति । किञ्च, स्वरभेदेपि-इकारादिस्वरभेदेपि सति तद्भिदा पङ्कहभेदो भवतीति बोद्धव्यम् । षडक्षरमेव पदम् । पदविन्यासोपि पूर्ववदिति बोद्धव्यम् । १. [-] कोष्ठगतोशः नास्ति क. प्रतौ। २. गोवि. रुचिहतवाम ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy