SearchBrowseAboutContactDonate
Page Preview
Page 367
Loading...
Download File
Download File
Page Text
________________ २३४ ], वृत्तमौक्तिक - द्वितीयखण्ड [ प० २३-२४ प्रविन्त्ये पदे लः-एको लघुरधिको देय इत्यर्थः, तेनान्त्यं पदं त्रयोदशाक्षरं भवति । तच्च, जरुजभलान्तमित्युपदिश्यते । पदविन्यासस्तु स्वेच्छया विधेयः । यथा अनङ्गवर्जन प्रसङ्गसज्जन । इत्यादि। ... अनङ्गमङ्गल प्रसङ्गसञ्जनक । इत्यन्तम् । पत्र च मधुरततीयत्वादेव विरुदावल्यन्तर-समग्राद भिन्नमिदं समग्रमिति । इति समग्रम् ॥१६॥ २०. अथ तुरग'श्चण्डवृत्तम् -भनौ जलौ ।। २३ ।। मधुरौ युग्मनवमौ चेच्चण्डतुरगाह्वयम् । [व्या०] अयमर्थः-यत्र भनौ-भगण-नगणो भवतः, ततो जलो-जगणलघू स्याताम् । किञ्च, युग्मनवमौ वो चेत् मधुरो-परसवर्णो स्तस्तदा तुरगाह्वयचण्डवृत्तं भवतीत्यर्थः । दशाक्षर पदमिदम् । पदविन्यास: पूर्ववत् । यथा पण्डितगुणगणमण्डित । यथा वा सँवल विचकिलकुण्डल मण्डितवरतनुमण्डल कुण्डलिपतिकृतसङ्गर दण्डित भुवनभयङ्कर शङ्करकमलजवन्दित किङ्करनुतिलवनन्दित' गजितसमदपुरन्दर चञ्चलदमनधुरन्धर बन्धुरगतिजितसिन्धुर चन्दनसुरभितकन्धर सुन्दरभुजलसदङ्गद' सन्ततसखिगणरङ्गद झङ कृतिकरमणिकङ्कण १. गोवि. तुरंगः। २. क. मधुरं । ३. गोवि. संचल । ४. गोवि. खण्डित । १. क. किङ्करतुलितवनन्दित । ६. क. भुजबलदङ्गद ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy