________________
प० २३ J
६. विरुदावली प्रकरणम्
[ २३३
[aro] इदमत्रानुसन्धेयम् । श्रत्र पल्लविताख्ये चण्डवृत्ते तुयंपञ्चमो वर्णों चेद् बोधों भवतः । द्वितीयो वर्णः शिथिलो मधुरो वा भवति । तत्र प्रायेण मधुर एव श्रुतिसौख्यकृत् । त्र गणनैयत्यमाह - भतन द्विजाः - भगण-तगण नगण-द्विजगणाः क्रमेण यत्र भवन्ति । एतत् पल्लविताभिधानमिदं चण्डवृत्तं भवति । त्रयोदशाक्षरमिदं पदं भवति । यथा
रञ्जितना रीजननवमनसिज ।
इत्यादि । मधुर द्वितीयवर्णोदाहरणमिदम् । शिथिलद्वितीयवर्णोदाहरणं, यथा
दल्लवलीलासमुदयपरिचित पल्लव रागाधरपुटविलसित वल्लभगोपीप्रवणित मुनिगणदुर्लभ केलीभरमधुरिमकण मल्लविहाराद्भुततरुणिमधर फुल्लमृगाक्षीपरिवृतपरिसर चिल्लि विलासार्पितमनसिजमद मल्लिकलापामलपरिमलपद रल्लकराजी हरसुमधुरकल हल्लकमालापरिचितकचकुल
धीर !
जय चारुहास कमलानिवास ललनाविलास परिवीतदास
वीर !
वल्लवललनावल्ली-करपल्लवशीलितस्कन्धम् । उल्लसितः परिफुल्लं भजाम्यहं कृष्णकङ्केल्लिम् ।
इति पल्लवितम् । १८०
१६. अथ समग्रं चण्डवृत्तम्
- जो रः समग्रं श्लिष्टपञ्चमम् । तृतीयं मधुरं सर्व-कलान्ते लः–
[auto ] श्रस्यार्थः – जो-जगण : रो- रगणश्चेति गणद्वयं प्राम्रो उनोपमित्युपदेशः । तथा च द्वादशाक्षरपदमिवं समग्रं समग्राख्यं चण्डवृत्तं भवति । किंविशिष्टं ? श्लिष्टपञ्चमं - दिलष्ट:सरेफशिरस्कः पञ्चमो वर्णो यत्र । किञ्च, तृतीयमक्षरं मधुरं परसवणं यत्र । सर्वकलान्ते