________________
२३२ ]
वृत्तमौक्तिक-द्वितीयखण्ड
[प० २०.२३
इत्यादि।
षत्रिपञ्चमका जो मः सगणो लघुयुग्मकम् ।
तरत्समस्तमित्याहुः' [व्या०] एवमुक्तं भवति । यदि पत्रिपञ्चमका:-षष्ठतृतीयपञ्चमा वर्णाः श्लिष्टसंश्लिष्ट-मधुराः स्युः । तत्र गणनियममाह-जो-जगणः, मो-मगणः, सगणः गुर्वन्तश्चतुष्कलो गणस्ततो लघयुग्मकं-लघुयुगलं च यदि भवति तदा तरत्समस्तंमिति नामकं चण्डवृत्तमाहुश्छान्दसिकाः । एकादशाक्षरमेव पदम् । यथा
निरस्तचण्डद्वेषिधराधर इति तरत्समस्तम् ॥१५॥ १६. अथ वेष्टनञ्चण्डवृत्तम्
-दीघौं षट्पञ्चमौ यदि ।। २० ॥ वेष्टने सप्तमः श्लिष्टो नयौ लघुचतुष्टयम् । [व्या०] अयमर्थः-वेष्टने-वेष्टनालये चण्डवृत्तप्रभेदे यदि षट्पञ्चमौ-षष्ठपञ्चमको घों दीपों स्याताम् । सप्तमश्च वर्णः श्लिश्टो भवेत् । गणनियममाह-नयो-नगणयगणो स्तः, ततो लघुचतुष्टयं यत्र भवति । दशाक्षरं च पदं भवति । तत् वेष्टनाभिधानं चण्डवृत्तं भवतीति ।
मलयजसाराच्चितहर। इत्यादि।
इति वेष्टनम् ॥१६॥
१७. अथ अस्खलितञ्चण्डवृत्तम् तरौ भलावस्खलिते व्यष्टपञ्चमसप्तमाः ॥ २१ ।।
संश्लिष्टा दीर्घ प्रांद्यः स्यात्[व्या०] कोऽर्थः ? उच्यते-अस्खलिते-अस्खलिताभिषाने चण्डवृत्ते यदि तरो-तगण रगणी स्याताम् । अथ च भली-भगणलघूस्तः । किञ्च, व्यष्टपञ्चमसप्तमा:-तृतीयाष्टमपञ्चम. सप्तमा वर्णाश्चेत् संश्लिष्टा अन्त्ययोगिनः स्युः । प्राय:-प्रथमो वर्णश्चेद् दीर्घः स्यात् तदा प्रस्खलिताभिधानं चण्डवृत्तं भवति । शाक्षरमेव पदं भवति । यथा
आबद्धशुद्धयुद्धप्रणय । इत्यादि।
इति अस्खलितम् ।१७। . १८. अथ पल्लवितञ्चण्डवृत्तम्
-दीघौं चेत्तुर्यपञ्चमौ। शिथिलो मधुरो वाऽत्र द्वितीयो भतनद्विजाः ।। २२ ॥ एतत् पल्लवितम्