________________
५० १७ - १६ ]
९.विरुदावली-प्रकरण
[ २३१
एवं पदान्तरमपि बोद्धव्यम् ।
इति कल्पद्रुमः ॥११॥
१२. प्रथ कन्दलश्चण्डवृत्तम् कन्दले पञ्चमः श्लिष्टो द्वितीये मधुरोऽनु भो ।। १७ ।। [व्या०) कन्दले-कन्दलाख्ये चण्डवृत्ते पञ्चमो वर्ण: श्लिष्टो भवति । द्वितीयो वर्णो मधुर:-परसवर्णो भवति । तत्र गणनयत्यमाह-अत्रास्मिन् भो-भगणौ एव स्तः । षडक्षरमेव पदम् । तत्कन्दलाभिधानं चण्डवृत्तं भवतीति । यथा
पण्डितवर्द्धन । इत्यादि ।
इति कन्दलः ।१२।
१३. अथ अपराजितञ्चण्डवृत्तम् षडष्टदशमा दीर्घा द्वितीयो मधुरो यदि ।
अपराजितमेतत्तु भसजाश्च गुरुर्लघुः ॥ १८ ॥ ___ [व्या०] एतदुक्तं भवति । यत्र षडष्टदशमा:-षष्ठाष्टमवशमा वर्णा दीर्घा भवन्ति । द्वितीयो वर्णो यदि मधुरः-परसवर्णो भवति । यदि च भसजा:-भगणसगणजगणाः भवन्ति । अथ च गुरुस्ततो लघुश्चेद् भवति । तदेतत् अपराजिताख्यं चण्डवृत्तं भवति । एकादशाक्षरं पदम् । यथा
गजितपरवीर धीर हीर । इत्यादि।
इति अपराजितम् ॥१३॥
१४. प्रथ नर्तनञ्चण्डवृत्तम् चतुःसप्तमको श्लिष्टौ सौ रो लौ यदि नर्तनम् ।
अष्टमो मधुरः[व्या०] अस्यार्थः-यदि चतुःसप्तमको वर्णो श्लिष्टौ भवतः, अष्टमो वर्णो मधुरः-परसवर्णो भवति । किञ्च, यदि सी-सगणो स्याताम् । अथ च रो-रगणः, ततो लो-लघुद्वयं स्यात् तवा नर्तनं-नर्तनाल्यं चण्डवृत्तं भवति । इदमप्येकादशाक्षरं पदम् । यथा
भुवनत्रयशत्रुम्प्रमईय। इत्यादि ।
इति नर्तनम् ।१४। १५. अथ तरत्समस्तञ्चण्डवृत्तम्
-श्लिष्ट-संश्लिष्टमधुरा यदि ॥ १६ ॥