________________
२३० ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० १६-१७
धवलाधृतिधर' गवलाश्रितकर सरसीकृतनर सरसीरुहधर कलशीलितमुख कलशीदधिहर ललितारतिकर ललितावलिपर
धीर! हरिणीनयनावृत प्रभो फरिणीवल्लभकेलिविभ्रम । तुलसीप्रिय दानवाङ्गनाकुलसीमन्तहर प्रसीद मे ॥
चन्दनचर्चित गन्धसमर्चित गण्डविवर्त्तन-कुण्डलनर्तन सन्दलदुज्ज्वल कुन्दलसद्गल वजुलकुन्तल' मञ्जुलकज्जल सुन्दरविग्रह नन्दलसद्ग्रह
वीर ! रतिमनुबध्य गृहेभ्यः कर्षति राघां वनाय या निपुणा। . सा जयति निसृष्टार्था' वरवंशजकाकली दूती।
सविरुवा गुणरतिरियम् ॥१०॥ ११. अथ कल्पद्रुमश्चण्डवृत्तम्
.
-अन्त्यान्त्यो नवमः श्लिष्टपूर्वगः ॥ १६ ॥ कल्पद्रुमे तजो यश्च श्लिष्टाः षट्-त्रि-नव-द्विकाः ।। [व्या०] कोऽर्थः ? उच्यते-पत्र कल्पद्रुमे चण्डवृत्ते अन्त्यो-यमणः तस्यान्त्यो-नवमो वर्णः श्लिष्टपूर्वगः-श्लिष्टो वर्णः पूर्वगो यस्य स तावृशो भवति । तत्र च गणनियममाहतजो-तगणजगणो, अथ च यश्च-यगणोपि भवति । एवं गणत्रयं यत्र भवति तदेतत् कल्पमाख्यं चण्डवृत्तं भवति । नवाक्षरमिदं पदम् । पदविन्यासोपि पूर्ववत् । किञ्च-पत्रिनवद्विका:षष्ठतृतीयनवमद्वितीयका वर्णाः श्लिष्टा भवन्ति । यत्र च नवमश्लेषादेव द्वितीये पवे प्रथम वर्णस्य गुरुत्वं भवतीति भावः ।
यथा
उद्रिक्ततरस्थितगर्व प्रव्यक्तपरिस्थितसर्व ।
१. गोवि. हर । २. गोषि. कुड्मल । प्रख्यक्तपरिस्थितशर्व।
३. गोवि. निसृष्टार्था तब। ४. ख.