________________
२२८ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[५० १५-१६
विडम्बितसुधाम्बुधिप्रबलमाधुरीडम्बरा,
बिभर्तुं तव माधव स्मितकदम्बकान्तिर्मुदम् । इति श्रीगोविन्दविरुदावल्यां मातङ्गखेलितप्रत्युदाहरणम् ।
सविरुदमिदं मातङ्गखेलितम् ।।
६. अथ उत्पलं चण्डवृत्तम्
-भद्वयं चोत्पलं मतम् ॥ १५ ॥ श्लिष्टौ द्विपञ्चमौ[ध्या०] प्रयमर्थ:-भद्वयं-भगणयोतयं, भगणचतुष्टयमित्यर्थः । लक्ष्ये तथा दर्शनादेवं ख्यातम् । किञ्च-तस्मिन्नेव भगणदये द्विपञ्चमो-द्वितीयपञ्चमो वो लिष्टौ-सरेफशिरस्को च भवतो यत्र तत् उत्पलनामकं चण्डवृत्तं भवतीत्यर्थः । षडक्षरं भगणद्वयपक्षे, भगणचतुष्टयपक्षे तु द्वादशाक्षरमेव पदम् । पदविन्यासस्तु पूर्ववदेव । यथा
सर्वजनप्रिय
सर्वसमक्रिय इत्यादि । यथा पा, श्रीगोविन्दविरुदावल्याम्- .
नतितशर्कर-चकृतकर्करवृद्धमरुद्भर-तर्द्दन निर्भरदुष्टविमर्दन शिष्टविवर्द्धन सर्वविलक्षण मित्रकृतक्षण सद्भुजलक्षित-पर्वतरक्षितनिष्ठुरगजन-खिन्नसुहृज्जन रुष्टदिवस्पति-गर्वसमुन्नतितर्जनविभ्रम निर्गलितभ्रमशक्रकृतस्तव विस्फुरदुत्सव
वीर !
बुद्धीनां परिमोहनः किल ह्रियामुच्चाटनः स्तम्भनो
दर्भोदनधियां' मनःकरटिनां वश्यत्वनिष्पादनः । कालिन्दीकलहंस हन्त वपुषामाकर्षणः सुभ्रुवां,
जीयाद् वैणवपञ्चमध्वनिमयो मन्त्राधिराजस्तव ।
१. गोवि. वर्भोदनभियाम् ।