________________
8. विश्वावली-प्रकरण
[ २२७
भवतस्तथा बाणे-पञ्चमे भङ्गश्च-मंत्री च यदि भवति, तथा प्रथमाष्टमषष्ठकाः वर्णाः स्तृतीयश्च वर्णश्चेच्चत्वारोऽत्र वर्णा दीर्घाः स्युस्तदा मातङ्गखेलिताभिधानं चण्डवृत्तं भवति । दशाक्षरं पदमिवम् । अत्र पदविन्यासः स्वेच्छया विधेयः। यथा
साधितानन्तसारसामन्त । इत्यादि। यथा वा
नाथ हे नन्द-गेहिनीशन्द पूतनापिण्डपातने चण्ड दानवे दण्डकारकाखण्डसारपोगण्डलीलयोद्दण्ड गोकुलालिन्दगूढ गोविन्द पूरितामन्द-राधिकानन्द वेतसीकुञ्ज-माधुरीपुञ्ज लोकनारम्भजातसंरम्भदीपितानङ्गकेलिभागङ्गगोपसारङ्ग-लोचनारङ्गकारिमातङ्गखेलितासङ्गसौहृदाशङ्कयोषितामङ्कपालिकालम्ब चारुरोलम्बमालिकाकण्ठ कौतुकाकुण्ठ पाटलीकुन्दमाधवीवृन्दसेवितोत्तुङ्गशेखरोत्सङ्ग मां सदा हन्त पालयानन्त
वीर! स्फुरदिन्दीवरसुन्दर सान्द्रतरानन्दकन्दलीकन्द । मां तव पदारविन्दे नन्दय गन्धेन गोविन्द ।।
कुन्ददशन मन्दहसन' बद्धरसन रुक्मवसन
देव !
प्रपन्नजनतातमःक्षपणशारदेन्दुप्रभा
व्रजाम्बुजविलोचना स्मरसमृद्धिसिद्धौषधिः ।
१. क. 'मन्द हसन' नास्ति । २. गोवि. रुक्मवसन रम्यहसन ।