________________
२२६ ]
वृत्तमौक्तिक – द्वितीयखण्ड
इत्यादि ।
प्रचुरपरमहंसः काममाचम्यमाने, प्रणतमकरचत्रैः शश्वदाक्रान्तकुक्षौ ।
अघहर जगदण्डाहिण्डिहिन्दोल हासे,
स्फुरतु तव गभीरे केलिसिन्धौ रतिर्नः । उद्गीर्णतारुण्य विस्तीर्णकारुण्य गुञ्जालता पिछपुञ्जाढ्यतापिञ्छ । धीर !
[ प० १३-१५
उचितः पशुपत्यलंक्रियायै नितरां नन्दितरोहिणीयशोदः । तव गोकुलकेलिसिन्धुजन्मा जगदुद्दीपयति स्म कीर्तिचन्द्रः । सविरुदं वीरभद्रोदाहरणमिदम् ।
इति वीरश्चण्डवृत्तम् ||६|
७. प्रथ शाकरचण्डवृत्तम्
भौ रो लः पञ्चमः श्लिष्टो दीर्घौ नवम - सप्तमी ॥ १३ ॥ द्वितीयो मधुरः शाके -
[ व्या०] श्रयमर्थ: - शाके - शाकाख्ये चण्डवृत्ते प्रथमं भी भगणौ, अथ च शे-रगण:, ततो लो- लघुः । किञ्च पञ्चमो वर्ण: श्लिष्ट :- संयुक्तो भवति, नवमसप्तमो दीर्घा भवतः, द्वितीयो मधुरः - परसवर्णो वर्णो यत्र भवतीत्यर्थः । तत् शाकनामकं चण्डवृत्तं भवति । दशाक्षरं पदं विन्यासः पूर्ववत् । यथा
सञ्चितचक्र - भुजाभिराम ।
इति शाकरचण्डवृत्तम् । ७ । ८. प्रथ मातङ्गखेलितं चण्डवृत्तम् - ह्यथ मातङ्ग खेलितम् ।
श्लिष्टी वा मधुरो बाणदशमो रौ यलौ यदि ॥ १४ ॥ बाणे भङ्गश्च' मैत्री च प्रथमाष्टमषष्ठकाः । तृतीयश्चात्र दीर्घाः स्युः—
[व्या०] इदमत्रानुसन्धेयम् - प्रथ मातङ्ग खेलितं- मातङ्गखेलिताभिधानं चण्डवृत्तं लक्ष्यत इति शेषः । श्रत्र चार्थे वाकारः । तथा च यत्र 'बाणदशमी' बाणः - पञ्चमः दशमश्चेति लिष्टो मधुरो - परसवणों च भवतः । तथा रौ-रगणो, प्रथ त्र यलो -यगणलघु यदि
१. क. वाणैर्भङ्गेश्च ।