SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ ५० १२ - १३ ] . विरुदावली - प्रकरण [ २२५ खलिनीडुम्बक मुरलीचुम्बक जननीवन्दक - पशुपीनन्दक वीर। अनुदिनमनुरक्तः पद्मिनीचक्रवाले, नवपरिमलमाद्यच्चञ्चरीकानुकर्षी । कलितमधुरपद्मः कोऽपि गम्भीरवेदी, जयति मिहिरकन्याकूलवन्याकरीन्द्रः । इति सविरुवं समग्रोवाहरणम् । इति रणश्चण्डवृत्तम् ५. ६. अथ वीरश्चण्डवृत्तम् -मभौ नौ वीरचण्डके ॥ १२ ॥ प्राद्यवर्णात्तु चत्वारो वर्णाः स्युमधुरेतराः । [च्या०] अस्यार्थः-यत्र मभी-मगणभगणो, अथ च नौ-नगणौ भवतः । किञ्च, माधवर्णात्प्रथमाक्षरात् चत्वारो वर्णाः मधुरेतरा:- केवल श्लिष्टा एवेत्यर्थः। तत् बीरचण्डकाख्यं चण्डवृत्तं भवति । इदमपि द्वादशाक्षरमेव पदम् । अत्रापि पदविन्यासः पूर्वववेव । बाहुल्येन द्वादशपदमिदं भवति, तथा दृष्टत्वादिति । यथा युद्ध क्रुद्धप्रतिभटजयपर। इत्यादि। एतस्यैव अन्यत्र वीरभद्र इति नामान्तरम् । यथा उद्यद्विद्य द्युतिपरिचितपट सर्पत्सर्पस्फुरदुरुभुजतट स्वस्थस्वस्थत्रिदशयुवतिनुत रक्षद्दक्षप्रियसुहृदनुसृत मुग्धस्निग्धव्रजजनकृतसुख नव्यश्रव्यस्वरविलसितमुख हस्तन्यस्तस्फुटसरसिजवर सज्जद्गजत्खलवृषमदहर युद्धक्रुद्धप्रतिभटलयकर वर्णस्वर्णप्रतिमतिलकधर रुष्यत्तुष्ययुवतिषु कृतरस भक्तव्यक्तप्रणय मनसि वस वीर !
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy