________________
२२२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[११
प्रकटितरास स्तवकितहास स्फुटपटवास-स्फुरितविलास ध्वनदलिजाल-स्तुतवनमाल व्रजकुलपाल प्रणयविशाल प्रविलसदस-भ्रमदवतंस क्वणदुरुवंश-स्वनहृतहंस प्रशमितदाव प्रणयिषु तावद्विलसितभाव स्तनितविराव स्तनघनरागश्रितपरभाग क्षतहरियाग त्वरितधृताग
कृतरससंग'
वीर ! स्थितिनियतिमतीते धीरताहारिगीते, .
प्रियजनपरिवीते कुङ कुमालेपपीते । कलितनवकुटीरे काञ्च्युदञ्चत्कटीरे,
स्फुरतु रसगभीरे गोष्ठवीरे रतिर्नः॥ अम्बाविनिहतचुम्बामलतरबिम्बाधरमुखलम्बालक जय !
देव! दृष्ट्वा ते पदनखकोटिकान्तिपूर,
पूर्णानामपि शशिनां शतैरापम् । निविण्णो मुरहर मुक्तरूपदर्पः,
कन्दर्पः स्फुटमशरीरतामयासीत् ॥ इति अच्युतं चण्डवृत्तम् ३.
४. प्रथ वद्धितञ्चण्डवृत्तम् ___-यदि श्लिष्टा, द्वि-नव-द्वादशा अपि ।
वद्धितो भनजा जोलः[व्या०] एतदुक्तं भवति, यदि द्वि-नव-द्वादश अपि वर्णाः श्लिष्टा:-सरेफशिरस्काश्चेत्स्यस्तदा वद्धित इति नाम चण्डवृत्तं भवतीति । तत्र च गणनियममाह-भनजा:-भगरणनगणजगणाः, अथ च जो-जगणः, ततो लः-लघुरित्यर्थः । त्रयोदशाक्षरमिदं पदं स्वेच्छया यत्र विनिवेशितं भवति तद वद्धिताख्यं चण्डवृत्तम् । यथा
दुर्जयपरबलगर्जनवजित । इत्यादि। यथा वा, श्रीगोविन्दविरुदावल्याम्
ब्रह्मा ब्रह्माण्डभाण्डे सरसिजनयन स्रष्टुमाक्रीडनानि, ____स्थाणुभक्तुच खेलाखुरलितमतिना तानि येन न्ययोजि ।
१. गोवि० कृतरससङ्ग नास्ति ।