________________
२२० ]
वृत्तमौक्तिक - द्वितीयखण्ड
[-१०
तत्र प्रथमम्
१. पुरुषोत्तमश्चण्डवृत्तम् एवं सर्वत्र
श्लिष्टौ तुर्याष्टमौ दीघौं त्रि-षष्ठी सगणौ च भः।
पुरुषोत्तमचण्डं स्यात्[व्या०] अस्यार्थः-यत्र चतुर्थाष्टमी वर्णी श्लिष्टौ-सरेफशिरस्को च, तृतीय-षष्ठी च दीघों भवतः । तत्र गणनियममाह-'सगणो' इति । सगणो भवतः । ततश्च भः-भगणो भवति, तत् पुरुषोत्तमाख्यां महाकलिकारूपं चण्डवृत्तं भवति। नवाक्षरमिदं वृत्तम् । अस्मिन् प्रकरणे सर्वत्र विरामद्वयमेव भवतीत्युपविश्यते । यथा
दितिजाईन जातप्रभ। इत्यादि।
इति पुरुषोत्तमश्चण्डवृत्तम् १.
२. अथ तिलकं चण्डवृत्तम्
-सादौ नौ शेषगौ च नौ ॥ ९॥ मधुरो दशमो वर्णस्तिलकम्न्या. अयमर्थः- यत्र सादौ-सगणस्याविभूतो नौ-नगणी यत्र च सगणस्य शेषगोशेषे च धर्तमानौ नगरपावेव भवतः । मध्यभूतस्य सगणस्याद्यन्तयोर्नगणी भवत इति फलितोऽर्थः । किन्च-बशमो वर्णो मषुर:-स्ववर्गान्त्यसंयुक्तः परसवर्णों भवति । तत्तिलक नाम चण्डवृत्तस्यावान्तरो भेव इति । पञ्चवशाक्षरमिदं पदम् । यथा
विषमविशिखगणगजितपरबल । इत्यादि । यथा वा
अमलकमलरुचिखण्डनपटुपद नटनपटिमहृतकुण्डलिपतिमद नवकुवलयकुलसुन्दररुचिभर घनतडिदुपमितबन्धुरपटधर तरणिदुहितृतटमञ्जुलनटवर नयननटनजितखञ्जनपरिकर मुजतटगतहरिचन्दनपरिमल पशुपयुवतिगणनन्दन वरकल नवमदमधुरदृगञ्चलविलसित - मुखपरिमलभरसञ्चलदलिवृत