SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ [ विरुदावल्यां द्वितीयं चण्डवृत्त-प्रकरणम् ] प्रथाभिधीयते चण्डवृत्तं विरुदमुत्तमम् । शुद्धादिभेदसहितं कलिका-कल्पनान्वितम् ।। १ ॥ [व्या०] प्रादिपदेन संकीर्णा गभितमिश्रिता गृह्यन्ते तांश्च यथास्थानमुदाहरिष्यामः। प्रथ महाकलिकारूपं चण्डवृत्तम्, तच्च द्विविधं-सलक्षण-साधारणभेदेन । तत्र उक्तलक्षणसम्पूर्ण सलक्षणमुदीरितम् । अन्यत् साधारणं प्रोक्त चण्डवृत्तं द्विधा बुधैः ।। २।। अथ परिभाषा तत्र मधुर-श्लिष्ट-संश्लिष्ट-शिथिल-ह्रादिभेदतः । संयोगाः पञ्चह्रस्वाच्च दीर्घाच्च दशधा मताः ।। ३ ॥ अनुस्वारविसगौं तु न दीर्घव्यवधायको । स्वस्ववर्गान्त्यसंयुक्ता मधुरा इतरें पुनः ।। ४ ।। श्लिष्टाः सरेफशिरसः संश्लिष्टास्त्वन्ययोगिनः । यमात्रयुक्ता इत्युक्ताः शिथिला ह्रादिनस्त्वमी ।। ५ ।। हशेखराः साम्यमत्र नणयोः खषयोस्तथा । जययोर्वध्वयोरंहः' सच्चयो: सशयोरपि ॥ ६ ॥ ह्यप्ययो वध्वयोश्चैव क्षच्छयोरित्सवर्णयोः । शषयोः त्सच्छयोश्चैव क्षख्ययोरपि वर्णयोः ।।७।। श्लिष्टसंश्लिष्टयोरुक्तौ संग्राह्या मधुरेतराः । इत्येषा परिभाषाऽत्र राजते वृत्तमौक्तिके ।। ८ ।। इति परिभाषा. अथ चण्डवृत्तस्य महाकलिकारूपस्य व्यापकस्य व्याप्यव्यापकभावेन पुरुषोत्तमावि-कुसुमान्तं चतुस्त्रिशतिः ३४ प्रभेदा भवन्ति । तेषां चोद्देशक्रमोऽनुक्रमणिकाप्रकरणे स्फुटतरं वक्ष्क्षमाणत्वानह प्रपञ्च्यते । १. ख. जययो बंश्योरहः । २. ख. संध्चयो। ३. क. त्यायोः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy