________________
५० २०.
]
६. विरुदावली-प्रकरण
[२१७
६[-३]. अथ मध्या द्विपाविका द्विभङ्गी कलिका
उक्ता मभौ समो मध्या भौ नली वा भनौ जलौ ।
ननसा लद्वयं वापि शेषे वा नजना लघू ॥ २० ॥ [व्या०] अस्यार्थः-मध्यायास्तावत् चत्वारो भेदा लक्ष्यन्ते । यथा-मभौ-मगण-भगमो, अथ च समो-सगण-मगणी, ततो भो-भगणद्वयं यत्र भवति, एतादृशी मध्या उक्ता-कथिता इत्यर्थः । इति प्रथमो भेदः ।
यथा
नित्यं नृत्यं कलयति काली केलीमञ्चति चञ्चति ।
इत्यादि।
। इति मध्यायाः प्रथमो भेदः ।।
अथ मध्याया द्वितीयो भेदः
भनो-भगमनमणी,
[व्या०] 'नलो वा भनौं जलो' इति । यत्र नलो-नगणलघू, अब ततश्च जलो -जगणलघू भवतः । इति द्वितीयो भेवः । यथा
रणभुवि अञ्चति रणभुवि चञ्चति । इत्यादि।
इति मध्याया द्वितीयो भेदः ॥२॥
अथ मध्यायाः तृतीयो भेदः [व्या०] 'नमसा लद्वयं वापि' इति । ननसा:-नगण-नगण-सगगाः, प्रथ व लघुदयं भवति पत्र स तृतीयो भेदः । यथा
अतिशयमधिरणमञ्चति । इत्यादि।
इति मध्यायाः तृतीयो भेदः ।३।।
अथ मध्यायाश्चतुर्थो भेदः [ध्या०] 'शेषे वा नजना लघू' इति । शेषे-चतुर्थे भेदे नजना:-नगग-जगन-नगणाः, अथ च लघु-लघुद्वयं यत्र भवति स चतुर्थो भेदः । यथा
अतिशयमञ्चति रणभुवि । इत्यादि।
इति मध्यायाश्चतुर्थो भेदः ।।