SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ प०१५ - ] ६. विरुदावली-प्रकरण [ २१५ यथा दम्भारम्भामितबल जम्भालम्भाधिकबल जम्भासम्भावितरण-मण्डित पण्डित । क्वचित्तुर्ये न भङ्गः, इति समुदाह्रियते । यथा जम्भारातिप्रतिबल-दम्भाबाधानतदल सम्भारासादनचण-दारणकारण । इति भुजगत्रिभङ्गी कलिका ६[६]. [७]. अथ त्रिगता त्रिभङ्गी कलिका तृतीये कृतभङ्गा त्रिर्मनना भी च वल्गिता । त्र्यावृत्तास्तनभा भोऽन्ते ललितात्रिगता द्वये ॥ १५ ॥ पा०] अस्यार्थ:-त्रिगता त्रिभङ्गी कलिका तावद् द्विविधा, या मनना:-मगण-नगण. मगणास्त्रयो गणास्त्रिरित्रयं भवन्ति, अन्ते भौ-भगणद्वयं, तृतीयेच वर्णे भङ्गः सा पल्गिताभिधाना शिगता त्रिभङ्गी कलिका । यस्यां च त्र्यावृत्तास्तनभा:-तगण-नगण-भगणास्त्रयो गणा भवन्ति, एतस्यान्ते भो-भगण एक एव भवति । परन्तु द्वये-द्वितीये वर्णे भङ्गः सा ललिताभिधाना त्रिगता त्रिभङ्गी कलिका इति वैविध्यम् । क्रमेण यथा [७-१]. अथ वल्गिता त्रिगता त्रिभङ्गी कलिका बाणाली-हतरिपुगण तालोली-तत-शरवण मालाली-वृततनुवर-दायक नायक ! इत्यादि। इति वस्गिताभिधाना त्रिगता त्रिभङ्गी कलिका [ [७-२]. अथ ललिताभिधाना त्रिगता त्रिभङ्गी कलिका नाकाधिपसमनायक पाकाधिकसुखदायक राकाधिपमुखसायक सुन्दर ! इति ललिताभिधाना त्रिगता त्रिभङ्गी कलिका एवं त्रिगता त्रिभङ्गी कलिका द्विविधोवाहृता ६[७].* ] ६ [८]. अथ वरतनुत्रिभङ्गी कलिका षष्ठभङ्गा वरतनुस्त्र्यावृत्ता नयना लघुः । भौ च यथा अविकलताराधिपमुख अधिगतनारायणसुख बहुविधपारायणपर पण्डित मण्डित ! *[-] कोष्ठगतोश: क. प्रतो नास्ति ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy