________________
७. यतिनिरूपण -प्रकरण
[ २०३
पूर्वान्तवत् स्वरः सन्धो क्वचिदेव पराविवत् । अस्यायमर्थः-योऽयं पूर्वपरयोरेकादेशः स्वरः सन्धी विधीयते । स क्वचित् पूर्वस्यान्तवद् भवति, क्वचित् परस्यादिवद् भवति । तथा च पाणिनिः स्मरति-'अन्तादिषच्च' [पा०सू० ६।१८५] इति । तत्र पूर्वान्तवद्भावे यथा स्यात् । यथा
स्यादस्थानोपगतयमुनासङ्गमे चाभिरामा' । इत्यादि । तथा
जम्भारातीभकुम्भोद्भवमिव दधतः सान्द्रसिन्दूररेणुम् । इत्यादि । तथा
दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये।
स्वानुभूत्येकमानाय नमः शान्ताय तेजसे ।। इत्यादि। परादिवद्भावे यथा
स्कन्धं विन्ध्याद्रिमूर्द्धा निकषति [महिषस्याहितोऽसूनहार्षीत् । इत्यादि । तथा
शूलं शूलं तु गाढं प्रहर हर हृषीकेश] केशोऽपि वक्त्र
श्चक्रेणाऽकारि किं ते । इत्यादि।
अत्र हि स्वरूपस्य परादिवद्भावे व्यञ्जनमपि तवभक्तत्वात् तदादिवद् भवति । 'यदि पूर्वापरी भागो न स्यातामेकवर्णको' इत्यन्तादिवद्भावे विषावपि सम्बध्यते । तेन
अस्या वक्त्राब्जमवजितपूर्णेन्दुशोभं विभाति । इत्येवंविधा यति[नं]भवति । यथा वा स्वरः सन्धो
राकाचन्द्रादधिकमबलावक्त्रचन्द्रं विभाति । तथा शेषेऽपि, यथा
रामातरुणिमोद्दामानङ्गरङ्गप्रसङ्गिनी। इत्यादि उन्नेयम् । 'यणादेशः परादिवत्' भवतीति शेषः । यथा
विततजलतुषारास्वादुशुभ्रांशुपूर्णा
स्वविरलपदमालां श्यामलामुल्लिखन्तः । इत्यादि।
'नित्यं प्राक्पदसम्बन्धाश्चादयः प्रापवान्तवत् ।' तेभ्यः पूर्वा यतिन कर्तव्या इत्यर्थः ।
१. ख. नाभिरामा। २. कोष्ठगतोऽशः ख. प्रतो नास्ति । ३. ख. इत्याद्यन्त्यवत् ।