________________
२०२ ]
वृत्तमौक्तिक - द्वितीयखण्ड
।
यक्षश्चक्रे जनकतनयास्नानपुण्योदकेषु । इत्यादि व्यक्ताध्यक्तविभक्तिक इति । यतिः सर्वत्रपादान्ते इत्यनेन सम्बध्यते ।
यथा
वशीकृतजगत्कालं कण्ठेकालं नमाम्यहम् ।
महाकालं कलाशेषं शशिलेखाशिखामणिम् ॥ अपि च
नमस्तुङ्गशिरश्चुम्बिचन्द्रचामरचारवे । त्रैलोक्यनगरारम्भमूलस्तम्भाय शम्भवे ।। क्वचित्तु पदमध्येऽपि समुद्रादौ यतिर्भवेत् ।
यदि पूर्वापरौ भागौ न स्यातामेकवर्णको ॥ ५॥ इति । चतुरक्षरा यतिभंवति । यथा
पर्याप्तं तप्तचामीकरकटकतटे श्लिष्टशीतेतरांशौ । इत्यादि । यथा वा
उन्मीलन्नीलपङ्केरुहरुचिररुचो देवदेवस्य विष्णोः । इत्यादि । तथा
कूजत्कोयष्टिकोलाहलमुखरभुवः प्रान्तकूलान्तदेशाः । इत्यादि । तथा
वैरिञ्चानां' तथोच्चारितरुचिरऋचा चाननानां चतुर्णाम् । इत्यादि । समुद्रावो इति किम् ? पादमध्येऽपि यतिः। पदान्ते तु माऽभूत् । तद्यथा
प्रणमत भवबन्धक्लेशनाशाय नारायणचरणसरोजद्वन्द्वमानन्दहेतुम् ।
इत्यादि।
पूर्वोत्तरभागयोरकाराक्षरत्वे तु पदमध्ये यतिदुष्यति । यथा
एतस्या गण्डमण्डल-ममलं गाहते चन्द्रकक्षाम् । इत्यादि। यथा
एतस्या राजति मुखमिदं पूर्णचन्द्रप्रकाशम् । इत्यादि । तथा
सुरासुरशिरोनिघृष्टचरणारविन्दः शिवः । इत्यादि.
१. क. राञ्चिना। २. ख. गाहतेन्द्रकक्षाम् ।