________________
सप्तमं यतिनिरूपण-प्रकरणम्
अथाभिधीयते चात्र यतिविच्छेदसंज्ञिता। विरामधृतिविश्रामावसानपदरूपिणी ।। १ ।। समुद्रेन्द्रियभूतेन्द्र रसपक्षदिगादयः । साकांक्षत्वादिमे शब्दा यत्या सम्बन्धमात्रिताः ॥२॥ तस्यास्तु लक्षणं सम्यगुच्यते वृत्तमौक्तिके । आलोच्य मूलशास्त्राणि सोदाहरणमञ्जसा ॥ ३ ॥ यतिः सर्वत्र पादान्ते श्लोकस्याः विशेषतः । समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ॥ ४ ॥ क्वचित्तु पदमध्येऽपि समुद्रादौ तथैव च। अत्र पूर्वापरौ भागौ न स्यातामेकवर्णकौ ॥ ५ ॥ पूर्वान्तवत स्वरः सन्धौ क्वचिदेव परादिवत । द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत् ।। ६ ॥ नित्यं प्राक्पदसम्बन्धाश्चादयः प्राक्पदान्तवत् ।।
परेण नित्यसम्बन्धाः प्रादयश्च परादिवत् । ७ ।। 'यतिः सर्वत्रपादान्ते' इत्यादि कारिकाचतुष्टयं यथास्थानं व्याकरिष्यामः । तत्र-यतिः सर्वत्र सर्ववृत्तेषु इत्यर्थः, पादान्त एव भवति । यथा
[विशुद्धज्ञानदेहाय, शिवाय गुरवे नमः । इत्यादि । तस्यैव प्रत्युदाहरणं यथा] -
__ नमस्तस्मै महादेवाय शशाङ्कार्द्धमौलये । इति । 'इलोकस्याऽर्द्ध विशेषतः' इत्यत्र सन्धिकार्याभावः, स्पष्टविभक्तिकत्वं च विशेषतो यत्र भवति । तद्यथा
नमस्यामि सदोद्भूतमिन्धनीभूतमन्मथम् ।
ईश्वराख्यं परं ज्योतिरज्ञानतिमिरापहम् ॥ अत्रेश्वरमित्यस्य मकारेण संयोगो न कर्तव्यः । समासे तस्यैव प्रत्युदाहरणं । यथा
सुरासुरशिरोरत्नस्फुरत्किरणमञ्जरी
पिञ्जरीकृतपादाब्जद्वन्द्वं वन्दामहे शिवम् ।। इति । 'समुद्रादिपदान्ते च व्यक्ताव्यक्तविभक्तिके ।' तत्र स्वतन्त्रव्यक्तविभक्तिकं समासान्तभूतमव्यक्तविभक्तिकम् । यथा
१. [-] क. प्रतो नास्ति कोष्ठगोंऽशः।