________________
२०० ]
वृत्तमौक्तिक-द्वितीयखण्ड
[५० ३२ - ३४
यथा, हलायुधः प्राह'
मनाक्प्रसृतदन्तदीधितिः, स्मरोल्लसितगण्डमण्डला।
कटाक्षललिता च कामिनी, मनो हरति चारुहासिनी ॥ ३२ ॥ यथा वा, वृत्तरत्नाकरटोकायां सुल्हणः प्रोवाच--
न कस्य चेतः समन्मथं, करोति सा सुन्दराकृतिः ।
विचित्रवाक्योक्तिपण्डिता, विलासिनी चारुहासिनी ॥ ३३ ॥ यथा वा, मम प्रत्युदाहरणम्-- .
सुवृत्तमुक्तावलीधरं, प्रतप्तचामीकराम्बरम् । मयूरपिच्छेविराजितं, नमाम्यहं नन्दनन्दनम् ॥ ३४ ।।
इति चारहासिनी वैतालीयकम् १२. इति श्रीवृत्तमौक्तिके वंतालीयप्रकरणं षष्ठम् ।
*टिप्पणी-१ छन्दःशास्त्रहलायुषटीकायां प्र० ४, कारिकायाः ४० उदाहरणम्