SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ ५०२५ - ३१] ६. वैतालीय-प्रकरण [ १६६ यथा ,हलायुधे' जयो भरतवंशस्य', श्रूयतां श्रुतमनोरसायनम् । पवित्रमधिकं शुभोदयं, व्यासवक्त्रकथितं प्रवृत्तकम् ।। २५ ।। प्रत्युदाहरणम्हरि भजत रे जनाः परं, श्रूयतां परमधर्ममुत्तमम् । न काल इह कालयत्यसौ, सर्वघस्मरघनाघनद्युतिः ।। २६ ॥ इति प्रवृत्तकं वैतालीयम् १०. ११. प्रथ अपरान्तिका अस्य युग्मरचिताऽपरान्तिका ॥ २७ ।। [व्या.] अस्य-प्रवृत्त कस्य समपदकृता-समपादलक्षणयुक्तश्चतुभिः पादै रचिताऽपरान्तिका । यथा, हलायुधे स्थिरविलासनतमौक्तिपेशला', [कमलकोमला] ङ्गी मृगेक्षणा। हरति कस्य हृदयं न कामिनः, सुरतकेलिकुशलाऽपरान्तिका ॥ २८ ।। यथा वा, सुल्हणे तुङ्गपीवर घनस्तनालसा, चारुकुण्डलवती मृगेक्षणा । पूर्णचन्द्रवदनाऽपरान्तिका, चित्तमुन्मदयतीयमङ्गना ॥ २६ ॥ यथा वा, मम प्रत्युदाहरणम् चारुकुण्डलयुगेन मण्डितो, बहिबहकृतमौलिशेखरः । ब्रूत भोः पनसपिप्पलादयो, नन्दसूनुरिह नावलोकितः ॥ ३० ॥ इति अपरान्तिका ११. १२. अथ चारुहासिनी अयुक्कृता चारुहासिनी ।। ३१ ।। ध्या०] प्रवृतकस्यैव विषमपादलक्षणयुक्तश्चतुभिः पादविरचिता चारहासिनी नाम बतालीयम् । कि तल्लक्षणम् ? चतुर्दशमात्रत्वं तृतीयेन च द्वितीययोगः। १. इदं भरतभूभृताम्। २. ख. मुतिः। ३. कावली 'हलायुधे'। ४. कोष्ठगतोऽशो नास्ति क. प्रतो। 'टिप्पणी-१ छन्दःशास्त्रहलायुधटीका अ० ४, का. ३६ उदाहरणम् । २ , , , , ,४१ उदाहरणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy