________________
प०८.१५]
५. विषमवृत्त -प्रकरण
[१६३
यथा
यमुनातटे विहरतीह, सरसविपिने मनोहरे। रासकेलिरभसेन सदा, व्रजसुन्दरीजनमनोहरो हरिः ।। ८ ।।
इति सौरभम् २.
३. अथ ललितम् न-युगं च हस्तयुगलं च, सुमुखि ! चरणे तृतीयके । भवति सुकविविदितं ललितं, कथितं तदेव भुवने मनोहरम् ।। ६ ।।
यथा
व्रजसुन्दरीसहचरेण', मुदितहृदयेन गीयते । सुललितमधुरतरं हरिणा, करुणाकरेण सततं मुरारिणा ॥ १० ॥
इति ललितम् ३.
४. अथ भावः षट्संख्याता हाराः, पादेषु त्रिष्वेवम् । अन्ते कान्तं यस्मिन्, भ-त्रय-ग-द्वितयं वद भावम् ॥ ११ ॥
यथा
राधामाधायैनां, चित्ते बाधां त्यक्त्वा । कल्पान्ते यः क्रीडेत्, तं किल चेतसि भावय नित्यम् ।। १२ ।।
इति भावः ४.
५. अथ वक्त्रम् कदाचिदर्द्धसमकं, वक्त्रं च विषमं भवेत् ।
द्वयोस्तयोरुपान्तेषु, वृत्तं तदधुनोच्यते ॥ १३ ।। तत्र वक्त्रम्
युग्भ्यां वक्त्रं मगौ स्यातां, सागराद् यस्त्वनुष्टुभिः । ख्यातं सर्वगणैरेतत्. प्रसिद्धं तद्धलायुधे ॥ १४ ॥
यथा
मुखाम्भोजं सदा स्मेरं, नेत्रं नीलोत्पलं फुल्लम् । गोपिकानां मुरारातेश्चेतोभृङ्गं जहारोच्चैः ।। १५ ।।
इति वक्त्रम् ५.
१. स. समुदयेन । २. क. यत्रयगद्वितयम । ३. चतुर्थाक्षरादनन्तरं यगणो देय इत्यर्थः ।