SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ तत्र प्रथमम् - यथा पञ्चमं विषमवृत्त प्रकरणम् ग्रथ विषमवृत्तानि भिन्न चिह्नचतुष्पादमुद्दिष्टं विषमं मया । अथेदानीं तदेवात्र सोदाहरणमुच्यते ॥ १ ॥ १. उद्गता सजसा लघुः प्रथमतस्तु, नसजगुरुकाणि युग्मतः । स्युस्तदनु भनभा गयुताः, सजसा जगौ चरमतरपदोद्गता ।। २ ।। विलास गोपरमणीषु, तरणितनयातटे हरिः । वंशमधरदले कलयन्, वनिताजनेन निभृतं निरीक्षितः ॥ ३ ॥ सजसा लघुः प्रथमतस्तु, नसजगुरुकाणि युग्मतः । स्युस्तदनु भनलजा गयुताः, सजसा जगौ च खलु तुर्यतो भवेत् ॥ ४ ॥ तृतीयचरणे वा स्याद् भेदः समुपलभ्यते । ततो भारवि - माघादौ उद्गतेयमुदीरिता । यथा - इति उद्गता १. प्रथोद्गताभेदः श्रथ वासवस्य वचनेन, रुचिरवदन स्त्रिलोचनम् । क्लान्तिरहितमभिराधयितुं विधिवत्तपांसि विदधे धनञ्जयः ।। ५ ।। * ' यथा वा, माघे* * , 99 तव धर्मराज इति नाम, सदसि यदपष्ठु पठ्यते । भौमदिनमभिदधत्यथवा, भृशमप्रशस्तमपि मङ्गलं जनाः ।। ६ ।। इति उद्गताभवः १. २. अथ सौरभम् प्रथमं द्वितीयमथ तुर्य - मिह सममुशन्ति पण्डिताः । सौरभं यदि तृतीयपदे, विहगो नभी गुरुरपीह दृश्यते ॥ ७ ॥ * टिप्पणी - १. किरातार्जुनीयम्, स० ११, पद्य १ । २. शिशुपालवधम्, स० १५, पद्य १७ ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy