________________
प० २६ - ३१ ]
४. अर्द्धसम-प्रकरण
[ १९१
८. अथ केतुमती विषमे सजी सखि ! सगौ चेद्, भः समके रनौ गुरुयुगाभ्याम् । मिलितौ यदैव भवतस्तौ, केतुमतीति सा भवति वृत्तम् ॥ २६ ॥
यथा
यमुनाविहारकलनाभिः, कालियमौलिरत्ननटनाभिः । विदितो जनेन परमेशः, केवलभक्तितस्तु भुवनेशः ॥ २७ ।।
इति केतुमती ८.
६. अथ वाङ्मती यद्ययुग्मयोः रजौ रजौ कृतौ च, जरौ जरौ च युग्मयोर्गसंगती वा। हारशङ्खकक्रम रयुग्मतश्च, समानयोविपर्ययेण वाङ्मतीयम् ।। २८ ॥
यथा
काञ्चनाभ-वाससोपलक्षितश्च, मयूरचन्द्रिकाचयैविराजितश्च । नन्दनन्दनः पुनातु सन्ततं च, मनोविनोदनः प्रकामभासुरश्च ।। २६ ॥ अत्र समयोः पादयोः पादान्तगुरुत्वमवधेयम् ।
इति वाङमती ६.
१०. अथ षट्पदावली वाङ्मत्येव हि सुकले, विपरीता भवति चेद् बाले ! । कथयति पिङ्गलनागस्तामेतां षट्पदावली रुचिराम् ॥ ३० ॥ ऊह्यमुदाहरणम् ।
इति षट्पदावली १०. इत्यर्द्धसमवृत्तानि कथितान्यत्र कानिचित् । सुधीभिरूह्यान्यान्यानि प्रस्तार्य स्वमनीषया ॥ ३१ ॥ .. .
इति श्रीवृत्तमौक्तिके [चतुर्थ'] अर्द्धसमप्रकरणम् ।