________________
१६० ]
वृत्तमौक्तिक - द्वितीयखण्ड
[प० १९ - २५
www
m
W
यया- स्फुटमधुरवचः प्रपञ्चनैः, कलितमिदं हृदयं तदैव ते ।
अलमलमधुना तवाननं, न खलु कदापि विलोकयाम्यहम् ।। १६ ॥ यथा वा, हर्षचरिते [प्रथमोच्छ्वासे]
तरलयसि दृशं किमुत्सका-मविरतवासविलासलालसे' । अवतर कलहंसि वापिका, पुनरपि यास्यसि पङ्कजालयम् ।। २० ।।
इति प्रत्युदाहरणम् । इति अपरवक्त्रम् ५.
६. अथ सुन्दरी विषमे यदि सौ लगौ लगौ, समके स्भौ रलगा भवन्ति चेत् ।
घनपीनपयोधरे ! तदा, कथिता नागनृपेण सुन्दरी ॥ २१ ॥ यथा
अयि मानिनि ! मानकारणं, ननु तस्मिन्न विलोकयाम्यहम् ।
कुरु सम्प्रति मे वचोऽमृतं, प्रियगेहं व्रज किं विडम्बनः ।। २२ ॥ यथा वा
अथ तस्य विवाहकोतुकं, ललितं बिभ्रत एव पार्थिवः । वसुधामपि हस्तगामिनी-मकरोदिन्दुमतीमिवापराम् ।। २३ ॥' इति रघुवंशादिमहाकाव्येषु शतशः प्रत्युदाहरणानि ।
. इति सुन्दरी ६.
७. अथ भद्रविराट यस्मिन् विषमे तजौ रगौ चेद्, मः सो जः समके गुरू भवेताम् । तद्वै कथितं कवीन्द्रवर्य-स्तज्ज्ञ भद्रविराडिति प्रसिद्धम् ।। २४ ।।
यथा
यद्वेणुविरावमोहितास्ता, गोप्यः स्वं वसनं च न स्मरेयुः । द्वार्येव निवारिता जनोधै तिव्ये कृतनिश्चया बभूवुः ॥ २५ ॥
इति भद्रविराट् ७
१. मकलुषमानसवासलालिते 'हर्षचरिते' । २. ख..समुदाहरणानि । ३. ख. स्मरन्ति ४. क. द्वाप्येव । * टिप्पणी-१ रघुवंश, स० ८, पद्य १