________________
५० ११ -१८ ]
४. प्रर्द्धसम - प्रकरण
[१८९
इह खलु विषमः पुरा कृतामां, विलसति जन्तुषु कर्मणां विपाकः । क्घ जनकतनया क्व रामजाया, क्व च रजनीचरसङ्गमापवादः ॥ ११॥ इत्यादि महाकविप्रबन्धेषु शतशः प्रत्युदाहरणानि' ।
इति पुष्पिताग्रा १
२. अथ उपचित्रम् विषमे यदि सौ सलगाः प्रिये ! भौ च समे भगगाः सरसाश्चेत् । फणिना भणितं गणितं गणे-वृत्तमिदं कथितं ह्य पचित्रम् ॥ १२ ॥
यथा
यथा
नवनीतकरं करुणाकरं, कालियगञ्जनमञ्जनवर्णम् । भवमोचन-पङ्कजलोचनं, चिन्तय चेतसि हे सखि ! कृष्णम् ॥ १३ ॥
इति उपचित्रम् २.
३. अथ वेगवती विषमे यदि सादशनिर्गो, भत्रितयं समके गुरुयुग्मम् । कविना फणिना भणितैवं, वेदय चेतसि वेगवतीयम् ॥ १४ ॥ सखि ! नन्दसुतं कमनीयं, यादववंशधुरन्धरमीशम् । सनकादिमुनीन्द्रविचिन्त्यं, कुञ्जगतं परिशीलय कृष्णम् ॥ १५॥
इति वेगवती ३.
४. प्रथ हरिणप्लुता विषमे यदि सौ सगणो लगौ, सखि ! समे नगणे भभराः कृताः।
कविना फणिना परिजल्पिता, सुमुखि ! सा गदिता हरिणप्लुता ॥ १६ ॥ यथा
नवनीरदवृत्तमनोहरः', कनकपीतपटद्यु तिसुन्दरः । अलिके तिलकीकृतचन्दन-स्तव तनोतु मुदं मधुसूदनः ।। १७ ॥
इति हरिणप्लुता ४.
५. अथ अपरवक्त्रम् विषम इह पदे तु नौ रलो, गुरुरपि चेद् घटितः सुमध्यमे । सम इह चरणे नजौ जरौ, तदपरवक्त्रमिदं भवेन्न किम् ॥ १८ ॥
१. ख. समुदाहरणानि।
२. ख. वृन्दमनोहरः।