________________
चतुर्थ अर्द्ध सम-प्रकरणम्
अथ अर्द्धसमवृत्तानि लक्ष्यन्तेचतुष्पदं भवेत् पद्य द्विधा तच्च प्रकीर्तितम् । जातिवृत्तप्रभेदेन छन्दः [शास्त्रविशारदः ॥ १ ॥ मात्राकृता भवेज्जातिर्वृत्तं वर्णकृतं मतम् । तच्चापि त्रिविधं प्रोक्त समार्द्ध] ' समकं तथा ॥ २ ।। विषमं चेति तस्यापि लक्ष्यते लक्षणं त्विह । चतुष्पदी समा यस्य तत्समं परिकीर्तितम् ॥ ३ ।। यस्य स्यात् प्रथमः पादस्तृतीयेन समस्तथा । द्वितीयस्तु चतुर्थेन भवत्यद्धं समं हि तत् ॥ ४ ॥ यस्य पादचतुष्कं स्याद् भिन्नं लक्षणभेदतः । तदाहुविषमं वृत्तं छन्दःशास्त्रविशारदाः ॥ ५ ॥ समं तत्र मया प्रोक्तमथार्द्धसममुच्यते । यथा श्रीनागराजेन भाषितं सूत्रवृत्तिभिः ॥ ६ ॥ तत्र प्रथम
१. पुष्पिताना यदि रसलघुरेफतो यकारो, विषमपदे परिभाति पन्नगोक्ता । सम इह चरणे च नो जजो रो, गुरुरपि चेज्जयतीह पुष्पिताग्रा ॥ ७ ॥
यथा
सहचरि ! कथयामि ते रहस्यं, न खलु कदाचन तद्गृहं व्रजेथाः ।
इह विषमविषमा गिरः सखीनां, सकपटचाटुतराः पुरस्सरन्ति ॥८॥ यथा वा
प्रसरति पुरतः सरोजमाला, तदनु मदान्धमधुव्रतस्य पङ्क्तिः ।
तदनु धृतशरासनो मनोभू-स्तव हरिणाक्षि विलोकनं तु पश्चात् ॥९॥ इति वा
दिशि दिशि परिहासगूढगर्भाः, पिशुनगिरो गुरुगञ्जनं च तादृक् । सहचरि ! हरये निवेदनीयं, भवदनुरोधवशादयं विपाकः :। १० ॥
१. कोष्ठगोंsशः क. प्रतो नास्ति। २. ख. पनगोक्तः। ३. स. व्रजेथाम् । ४ क. मनोहर ।