SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ ५० १६ - १७ ] ३. दण्डक-प्रकरण [ १८७ ८. अनङ्गशेखरः जगण-रगण-क्रमेण च रन्ध्रगणा यत्र लघ्वन्ताः (गुर्वन्ताः) । फणिपतिपिङ्गलभणिताः' स शेयोऽनङ्गशेखरः कविभिः ॥ १६ ।। यथा विलोलचारुकुण्डलः स्फुरत्सुगण्डमण्डलः सुलोलमौलिकुन्तलःस्मरोल्लसत्, नवीनमेघमण्डलीवपुर्विभासिताम्बरप्रभातडित्समाश्रितः स्मितं दधत् । मयूरचारुचन्द्रिकाचयप्रपञ्चचुम्बितोल्लसकिरीटमण्डितः समुच्छ वसन्, विलासिनीभुजावलीनिरुद्ध बाहुमण्डलः करोतु वः कृतार्थतां जनानवन् ॥१७॥ _ इति अनङ्गशेखरः ८. इति दण्डकाः एवमन्येपि नकारद्वयानन्तरमनियतैस्तकारैः दण्डकाः प्रबन्धेषु दृश्यन्ते । तेस्माभिरपि यतत्वादेवोपेक्षिताः ग्रन्थविस्तरभयाच्चेह न लक्षिता, इत्युपरम्यते । इति श्रीवृत्तमौक्तिके[तृतीयं]दण्डकप्रकरणम् । १. ख. भणितः । २. ख. जनाननवन् । *टिप्पणी-दण्डकवृत्तस्य ग्रन्थान्तरेषु प्राप्तभेदा: पञ्चमपरिशिष्टे द्रष्टव्याः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy