________________
वृत्तमौक्तिक - द्वितीयखण्ड
[५० १० - १५
५. अथ प्रशोककुसुममञ्जरी रगण-जगण-क्रमेण हि रन्ध्रगणा यत्र लघ्वन्ताः ।। पिङ्गलनागनिगदिता ज्ञेया साऽशोककुसुममञ्जरिका ।। १० ।।
यथा
राधिके विलोकयाद्य केलिकाननं पिकावलीविरावराजितं मनोरमं च, सुन्दराङ्गि चारुचम्पकस्रगावली-विराजिते विलोलहारमण्डितेऽपरं च ।' मद्वचः शृणुष्व ते हितं च वच्मि हे सखि प्रमोदकारणं मनोविनोदनं च, फुल्लनागकेसरादिपुष्परेणुभूषितं भजाद्य नन्दनन्दनं मनोहरं च ॥ ११॥
इति अशोककुसुममञ्जरी ५.
६. अथ कुसुमस्तबकः सखि ! यत्र रन्ध्र-सगणाः श्रुतिपदघटिता विराजन्ते । कुसुमस्तबकं दण्डकमाह तदा तं तु पिङ्गलो नागः ॥ १२ ॥
यथा
सखि ! नन्दसुतं कमनीयकलाकलितं करुणावरुणालयमीशहरिं, रजनीशमुखं भवभीतिहरं नवनीतकरं भवसागरपारतरिम् । चपलारुचिरांशुकवल्लिधरं कमलावलिमालितमालि तमालरुचि, भवमोचन-पङ्कजलोचनरोचनरोचितभाल महं शरणं कलये ।। १३ ।।
इति कुसुमस्तबकः ६.
७. अथ मत्तमातङ्गः यत्र स्वेच्छा घटिता भवन्ति विहगाः सरोजाक्षि ! । पिङ्गलमुजगाधिपतिः कथयति तं मत्तमातङ्गम् ॥ १४ ।।
बधा
यामुने संकते रासखेलागतं गोपिकामण्डलीमध्यगं वेणुवाद्य तरं, मञ्जुगुञ्जावतंसं जगन्मोहनं चारुहासश्रिया संञ्चितं कुन्तलैरञ्चितम् । दिव्यकेलीकलोल्लाससम्भावितं दासवृन्दापदुन्मूलक कामनापूरकं, कल्पवृक्षस्य मूले स्थितं चन्द्रिकोत्तंसहाराञ्चितं चेतसा कृष्णचन्द्रं भजे ॥१५॥
इति मत्तमातङ्गः ७.
१. ख. द्वितीयचरणं क. प्रतो नारित।
२. क. मे वचः । ३. ख. विगहगा।