SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ प०५-६] ३. दण्डक -प्रकरण [ १८५ wwwwwwwww ३ अथ अर्णादयः पितृचरणरिह कथिताः प्रतिचरणविवृद्धि रेफा ये । दण्डकभेदाः पिङ्गलदोपे*ऽप्यर्णादयः स्फुटतः ॥ ५॥ तत एव हि ते विबुधैः विज्ञ या रेफवद्धितः प्राज्ञैः ।। प्रस्तार्य ते विधेया इत्युपदेशः कृतोऽस्माभिः ।। ६ ॥ अत्रापि समानसंख्याक्षर एव पादो भवतीति ध्येयम् । तत्राों यथाजय जय जगदीश विष्णो हरे राम दामोदर श्रीनिवासाच्युतानन्त नारायण, त्रिदशगणगुरो मुरारे [मुकुन्दासुरारे]' हृषीकेश पीताम्बर श्रीपते माधव । गरुडगमन कृष्ण वैकुण्ठ गोविन्द विश्वम्भरोपेन्द्र चक्रायुधाधोक्षज श्रीनिधे, बलिदमन नृसिंह शौरे भवाम्भोधिघोराणसि त्वं निमज्जन्त 'मभ्युद्धरोपेत्य माम्७ इत्युदाहरणम् इत्यादयो दण्डकाः ३. ४. अथ सर्वतोभद्रः रसपरिमितलघुकान्ते यदि यगणा स्युमुनिप्रमिताः । दण्डक एष निगदितः पिङ्गलनागेन सर्वतोभद्रः ॥ ८॥ यथा जय जय यदुकुलाम्भोधिचन्द्र प्रभो वासुदेवाच्युतानन्तविष्णो मुरारे, प्रबलदितिजकुलोद्दामदन्तावलस्तोमविद्रावणे केसरीन्द्रासुरारे । प्रणतजनपरितापोगदावानलच्छेदमेघौघनारायण श्रीनिवास, चरणनख[ज]सुधांशुच्छटोन्मेषनिःशेषिताशेषविश्वान्धकारप्रकाश ।।६।। एतस्यैव अन्यत्र प्रचितक इति नामान्तरम् । इति सर्वतोभद्रः ४. १. [-] कोष्ठगतोऽशो नास्ति क. प्रतो । २. ध्वस्तमज्जन्त । ३. क. इति प्रत्युवाहरणम् । "टिप्पणी-१. "अथार्णादयः-प्रतिचरणविवृद्धिरेफाः स्युरार्णवव्यालजीमूतलीलाकरोद्दाम शंखादयः । यदि नगणद्वयान्तरमेव प्रतिचरणं विवृद्धि रेफाः क्रमात् समधिकरगणास्तदा अर्ण-अर्णव-व्याल-जीमूत-लीलाकर-उद्दाम-शङ्खादयो दण्डकाः स्युरिति । एतेन नगणयुगल-वसुरेफेण अर्णः । ततः परे क्रमाद् रगरपवृद्धया ज्ञेयाः। प्रादिशब्दादन्येऽपि रगणवृद्धया स्वबुद्धया नामसमेता दण्डका विधेया इत्युपदिश्यते। (प्राकृतपंगलम् पृ० ५०८)
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy