________________
तृतीयं दण्डक-प्रकरणम्
यथा
अथ दण्डकाः तत्र यत्र पादे द्वौ नगणौ रगणाश्च सप्त भवन्ति स दण्डको नाम षड्विंशत्यक्षरपादस्य वृत्तस्यानन्तरं 'दण्डको नौ र:' [i७।३३।।]"* इति सूत्रकारपाठात् सप्तविंशत्यक्षरत्वमेव युक्तं दण्डकस्य । प्रथमं तावदेकाक्षरश्रयादिवृत्तानामेकैकाक्षरवृद्धया प्रस्तारप्रवृत्तिरत ऊर्ध्वं पुनरेकैकरेफवृद्ध या प्रस्तारः । तल्लक्षणं यथा
१. अथ चण्डवृष्टिप्रपातः नगणयुगलादनन्तरमपि यदि रगणा भवन्ति सप्तैव ।
दण्डक एष निगदितश्चण्डकवृष्टिप्रपात इति ।। १॥ इह हि भवति दण्डकारण्यदेशे स्थितिः पुण्यभाजां मुनीनां मनोहारिणी, त्रिदश विजयिवीर्यदृप्यद्दशग्रीवलक्ष्मीविरामेण रामेण संसेविते । जनकयजनभूमिसम्भूतसीमन्तिनीसीमसीतापदस्पर्शपूताश्रमे, भुवननमितदिव्यपद्माभिधानाम्बिकातीर्थयात्रागतानेकसिद्धाकुले ।।२।।
__इति चण्डवृष्टिप्रपातः १.
२. अथ प्रचितकः 'शेषः प्रचितकः' [७।३६]* इति सूत्रकारोक्तदिशा [चण्डवृष्टिप्रपातादूर्व अधिकैकरेफदानेन प्रस्तारे कृते दण्डकः प्रचितक इति संज्ञां लभते । लक्षणं, यथा
यदि ह न-द्वयानन्तरमपि रेफाः स्युर्वसुप्रमिताः।
प्रचितक इति तत्संज्ञा कथिता श्रीनागराजेन ॥ ३ ॥ प्रथमकथितदण्डकः]' चण्डवृष्टिप्रपाताभिधानो मुनेः पिङ्गलाचार्यनाम्नो मतः, प्रचितक इतितत्परं दण्डकानामियं जातिरेककरेफाभिवृद्धया यथेष्टं भवेत् । स्वरुचिरचितसंज्ञया तद्विशेषरशेषैः पुनः काव्यमन्येपि कुर्वन्तु वागीश्वराः, भवति यदि समानसंख्याक्षरैस्तत्र पादव्यवस्था ततो दण्डकः पूज्यतेऽसौ जनैः इति प्रचितकः ३.
॥४॥
यथा
१. [-] कोष्ठकान्तर्गतोऽशो नास्ति क. प्रतौ। २. 'प्रचित इति ततः परं' इति हलायुधे । *टिप्पणी-१ छन्दःशास्त्र ।
२ छन्दःशास्त्र-हलायुधटीका।