________________
प० ३-६ ]
यथा
२. प्रकीर्णक - प्रकरण
द्वकलघुदशकस्यान्ते भगण-गयुग-सगण- गुरुयुगलम् । लघुयुगलं गुरुयुगलं यदि घटितं स्यात् त्रिभङ्गिकावृत्तम् ॥ ३ ॥
स जयति हर इह वलयितविषधर तिलकितसुन्दरचन्द्रः परमानन्दः सुखकन्दः ।
वृषभगमन डमरुधरण नयनदहन जनितातनुभङ्गः
कृतरङ्गः सज्जनसङ्गः ।
जयति च हरिरिह करधृत गिरिवर विनिहतकंसन रेशः परमेशः कुञ्चितकेशः ।
गरुडगमन कलुषशमन चरणशरणजनमानसहंसः सुवतंसः पालितवंशः ॥ ४ ॥
इति द्वितीयत्रिभङ्गी ५.
यथा
६. ग्रथ शालूरम्
करं,
कर्णद्विजवरगणमिह रसपरिमितमतिसुरुचिरमनुकलय शालूरममलमिति विकचकमलमुखि ! सखि ! सहचरि ! परिकलय वरम् । नेत्रानलकलमिदमतिशयसहृदय विशदहृदय सुखरसजनकम् । नागाधिप कथितमखिलविबुधजन मथितमगणितगुणगणकनकम् ॥ ५ ॥
[ १८३
गोपीजनवलयित - मुनिगणसुमहितमुपचितदितिसुतमदहरणं; व्यर्थीकृतजलधर-करधृतगिरिवर- गतभय-निजजनसुखकरणम् । वृन्दावनविहरण- परपदवितरण विहितविविधरसरभसपरं पीताम्बरधरमरुणचरणकरमनुसर सखि ! सरसिजनयनवरम् ।। ६ ।।
इति शालूरम् ६.
इति प्रकीर्णकं वृत्तमुक्त सद्वृत्त मौक्तिके ।
प्रस्तारगत्या वृत्तानि शेषाण्यूानि पण्डितैः ॥ ७ ॥
इति प्रकीर्णक-प्रकरणं द्वितीयम् ।
-