________________
१८२]
वृत्तमौक्तिक -द्वितीयखण्ड
[५० २
५, प्रथ द्वितीयत्रिभङ्गी प्रथमत इह कुरु सहचरि ! दश-परममपि च भं
कुरु शेषे गुरुयुग्मं हस्तसुयुक्त, पुनरपि गुरुयुग-लघुयुग-गुरुयुगमपि कुरु,
जल्पति नागः कृतरागः पीतविभागः । श्रुतिपदमिह सखि ! सममिति विरचय शुभदति'
वेदहगुक्तां विरतो मात्रां कुरु युक्तां, वसुरसशशिमितकलमिह कलय सकलपद
मङ्गदभङ्गी सुखरङ्गी सज्जनसङ्गी ॥ २ ॥
१.
ख. वरतन । *टि-कण्ठस्येयं दासी श्यामापरभृतयुवतिरपि
मधुपरिचयकलविरुतिनिसर्गकलध्वनेः, भ्रू वल्लीभङ्गे छेकाया हरिणनयनमचतुर
मतिललिततनु करभोरु ते सदृशं दृशः ।। ३८६ ।। वशभिखापिपीलिकापणवः । यथा
रुन्दोऽमन्दः कुन्दच्छायः शरदमलघनतुहिनविकचकुमुदवनहरहसितसितः शशाङ्ककरोज्ज्वलः, तार: पारावारापारः स्थलजलगगनतलसकलभुवनपथधवलनपरिचितः प्रसाधितदिङ्मुखः । लोकालोकच्छेदं गत्वा दृढकठिनविकटदिगवधितटघटनविवलनचलयितो विशुद्धयशश्चयः, प्रोत ङ्गः श्वेतप्राकारो ध्वनितगुणपणव तव जयति
नृपवर नवललितवसतेजगत्रितयश्रियः ।।३८७॥ पञ्चवशभिवंडा पिपीलिकामाला । यथा
उत्फुल्लाम्भोजाक्ष्यास्तस्याः कुसुमशरसुभग तव विरहदव इह हि जयिनि समुपवरणविषये व्यधायि सखीजनैः, अङ्गे वासः कर्पूराम्भस्तिमितशुचितुहिनकिरणकरपरिभवचतुरधवलिमकुचतटयुगे सुमौक्तिकदाम च । रम्भागुल्मं लीलागारं मलयजरसकलितवसुधामभिनवविकचकुमुदवनदलसमुदयश्च तल्पककल्पना, नव्या मौलो मल्लीमाला तदिदमखिलमपि दवहुतवहरुहिपरिचितमहिम विरचयति मुहुः प्रदाहमहाज्वरम् ॥ ३८८ ॥"
छिन्दोनुशासनम् द्वि० अ.]