SearchBrowseAboutContactDonate
Page Preview
Page 314
Loading...
Download File
Download File
Page Text
________________ द्वितीयं प्रकीर्णक-प्रकरणम् अथ प्रस्तारोत्तीर्णानि कतिचिद वृत्तानि वर्ण नियमरहितान्यभिधीयन्ते । तत्र प्राचीनानां संग्रहकारिका १-४. अथ भुजङ्गविजृम्भितस्य चत्वारो भेवाः वेदैः पिपीडिका स्यान्नवभिः करभश्चतुर्दशभिः । पणवमिदं तु शरैश्चेन्माला इह मध्यगैर्लघुभिरधिकैः ।। १ ।। .. इति भुजङ्गविजृम्भितभेदनिरूपणम् १-४.' *टिप्पणी-१ ग्रन्थकारेण द्वितीयखण्डस्य द्वादशप्रकरणे विज्ञापितमिदं यदस्य द्वितीय खण्डस्य द्वितीयप्रकरणे पिपीलिका-पिपीलिकाकरभ - पिपीलिकापरणवपिपीलिकामालाच्छन्दांसि लक्षणोदाहरणसहितानि निरूपितानि'। परमत्र चतुर्वृत्तानां लक्षणोदाहरणानि क्वचिदपि नैव दृश्यन्ते, केवलं त्वत्र प्राचीनसंग्रहकारिकव समुपलभ्यते । कारिकायाः पूर्वापरप्रसङ्गरहितत्वात् लक्षणान्यपि न प्रस्फुटीभवन्ति । अतः कलिकालसर्वज्ञ-हेमचन्द्राचार्यप्रणीताच्च्छन्दोनशासनादेषां चतुर्वृत्तानां लक्षणोदाहरणान्यधः प्रस्तूयन्ते। वृत्तान्येतानि सन्ति षड्विंशत्यक्षरात्मक-भुजङ्गविजृम्भितस्यैव भेदरूपाणि । "मातनीजभ्राः पिपीलिका जणः ।३८५। व्या०] मद्वयं तगणो नगणचतुष्टयं जभराः । जणैरिति अष्टभिः पञ्चदशभिश्च यतिः । पषा निष्प्रत्यूहं पुण्यां लक्ष्मीमविरतमभिलषसि यदि रमयितुं सुखं च यदीच्छसि, स्थातुं न्यायोन्मीलबुद्ध लघुभिरपि सह बहुभिरिह कुरु मा विरोधपदं तदा। विस्फूर्जपूत्कारं क्रीडाकवलितसकलमृगकुलमजगरं भुजङ्गममुन्मदं, सङ्घातं कृत्वा पश्यता ग्लपितवपुषमनवधिरचितरुजा अदन्ति पिपीलिकाः ॥३८५।। एषैव नीपरत: पञ्च-दश-पञ्चदशलवृद्धाक्रमेण करभः ॥३५॥ पणवः ।।४०॥ माला ॥४५॥ ॥३८६॥ व्या०] एषव पिपीलिका चतो नगणेभ्यः परतः पञ्चभिः, दशभिः, पञ्चदशभिश्च लघुभिर्वृद्धा: शेषगणेषु तथैव स्थितेषु क्रमेण करभादयो भवन्ति । तेऽत्र पञ्चभिर्वृद्धापिपीलिकाकरभः । यथा नित्यं लक्ष्मच्छायाछन्नः कलयतु कथमिव तव वदनरुचिममृतरुचिश्चिरं क्षयसंयुतः, तुल्यं नाब्जं स्फूर्जद्धुलीविधुरितजननयनयुगमतिमृदुकरचरणस्य निर्मलचारुणः ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy