________________
१३४ ]
वृत्तमौक्तिक - द्वितीयखण्ड
[८० १६ - २५
यथा
अथवा
यथा
६. प्रथ पथ्यावक्त्रम् अपि च
युजोश्चतुर्थतो येन (जेन), पथ्यावक्त्रं प्रकीर्तितम् । [एवमन्येऽपि भेदास्तु, विज्ञया गणभेदतः ।। १६ ॥]' रासकेलिसतृष्णस्य, कृष्णस्य मधुवासरे। आसीद् गोपमृगाक्षीणां, पथ्यावक्त्रं मधुश्रुतिः ।। १७ ।।
इति पथ्यावक्त्रम् ६. एवमन्यान्यपि गणविभेदात् ज्ञ यानि वक्त्रवृत्तानि । पञ्चमं लघु सर्वत्र सप्तमं द्विचतुर्थयोः । गुरुषष्ठं तु पादानां शेषेष्वनियमो मतः ।। १८ ।। अतः श्रीकालिदासश्च स्वप्रबन्धे समुज्जगो। तथान्येऽपि कवीन्द्राश्च स्वनिबन्धे बबन्धिरे ।। १६ ।। वागर्थाविव सम्पृक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे, पार्वतीपरमेश्वरौ ॥ २० ॥' किन्च
प्रयोगे प्रायिकं प्राहुः केप्येतद् वक्त्रलक्षणम् । लोकेऽनुष्टुबिति ख्यातिस्तस्याष्टाक्षरता कृता ॥ २१ ॥ तथा नानापुराणेषु नानागणविभेदतः।। वृत्तमष्टाक्षरं वक्त्रं, विषमाख्यां प्रयाति हि ॥ २२ ॥ एवं तु विषमं वृत्तं दिङ मात्रमिह कीर्तितम् । शेषमाकरतो ज्ञेयं, सुधीभिर्भावनापरैः ॥ २३ ॥ पदचतुरूर्द्ध वं वृत्तं मात्रासमकमेव च । उपस्थितप्रचुपित-मथान्यदपि वृत्तकम् ॥ २४ ॥ हलायुधे प्रसिद्धत्वादत्र [नात्युप] योगिनः । तदग्रन्थगौरवभीत्या च मयका न प्रपञ्चितम् २ ॥ २५ ॥
इति श्रीवत्तमौक्तिके वार्तिके द्वितीये वृत्तपरिच्छेदे
__विषमवृत्त प्रकरणं पञ्चमम् ।
[-] कोष्ठवयंशो नास्ति क प्रतौ। *टिप्पणी-१ रघुवंश, स० १, प० १ *टिप्पणी-२ पदचतुरूद्ध वादिवृत्तानां लक्षणानि श्रीहलायुधरचित-छन्दःसूत्रटीकानुसारेण
.संक्षेपेणोध्रियन्ते