________________
५०६०६ - ६१५]
१. वृत्तनिरूपण -प्रकरण
[१७६
अथान्त्यं सर्वलघु
२६५. अथ कमलदलम् सहचरि ! विकचकमलमुखि ! वसुमितसुनगणमिह विरचय, तदनु सकलपदविशदसुरभिकुसुमयुगमपि परिकलय । रसयुगपरिमितपदगतलघुमनुकलय कमलदलमिति, तदिह मनसि कुरु सुरुचिरगुणवति ! कथयति फणिपतिरपि ।। ६०६ ।।
यथा
कलुषशमन ! गरुडगमन ! कनकवसन ! कुसुमहसन ! [जय, ललितमुकुट ! दलितशकट ! कलितलकुट ! रचितकपट ! जय । कमलनयन !] ' जलधिशयन ! धरणिधरण ! मरणहरण ! जय, सदयहृदय ! पठितसुनय ! विदितविनय ! रचितसमय ! जय ।। ६१० ॥
इति कमलदलम् २६५. अत्रापि प्रस्तारगत्या रसलोचनवर्णस्य कोटिषट्कं एकसप्ततिलक्षाणि वसुसहस्राणि चतुःषष्ट्य त्तरापि अष्टौ शतानि च भेदाः ६७१०८८६४ तेषु भेदपञ्चकमभिहितं, शेषभेदाः प्रस्तार्य गुरूपदेशतः स्वेच्छया नामानि आरचय्य सूचनीया इति सर्वमवदातमिति ।'*
इति षडविंशत्यक्षरम् । उक्तग्रन्थमुपसंहरतिलक्ष्यलक्षणसंयुक्तं मया छन्दोऽत्र कीर्तितम् । प्रत्युदाहरणत्वेन क्वचित् प्राचामुदाहृतम् ॥ ६११ ।। सुजातिप्रतिभायुक्तं सालङ्कारं स्फुरद्गुणम् । कुर्वन्तु सुधियः कण्ठे वृत्तमौक्तिकमुत्तमम् ।। ६१२ ।। सर्वगुर्वादिलघ्वन्तप्रस्तारस्त्वतिदुष्करः ।। इति विज्ञाय वाद्यन्तभेदकल्पनमीरितम् ।। ६१३ ।। पञ्चषष्टयधिकं नेत्रशतकं समुदीरितम् । त्यक्त्वा लक्षणमित्राणि' वर्णवृत्तमिति स्फुटम् ।। ६१४ ।। यथामति यथाप्रज्ञमवधार्य मनीषिभिः । शोधनीयं प्रयत्नेन बद्धः सन्तोऽयमञ्जलिः ॥ ६१५ ॥
१. [-] कोष्ठगतोऽश: क. प्रतो नास्ति ।
२. पंक्तिचतुष्टयं नास्ति क. प्रतो । ३. ख. नास्ति पाठ:1 ४. स. वृत्तानि । *टिप्पणी-१ लभ्यशेषभेदाः पञ्चमपरिशिष्टे पर्यालोच्याः।