________________
१७८ ]
यथा
वृत्तमौक्तिक द्वितीयखण्ड
9.
यथा वा, हलायुधे '*—
[ ६०५ -६०८
श्रीकृष्णं भवभयहरमभिमतफल करणनिपुणतरमाराध्यं, लक्ष्मीशं दलितदितिजमवजितपरमवनतमुनिवरसंसाध्यम् । सर्वज्ञं गरुडगमनमहिपतिकृतरुचिरशयनमनघं नव्यं,
तं वन्दे कनकवसनतनुरुचिजितजलदपटलमजितं दिव्यम् ।। ६०५ ।।
श्रीकण्ठं त्रिपुरदहनममृतकिरणशकलकलितशिरसं रुद्रं, भूतेशं हतमुनिभयमखिलभुवनमितचरणयुगमीशानम् । सर्वज्ञं वृषभगमनमहिपतिकृतवलय रुचिरकरमाराध्यं,
तं वन्दे भवभयनुदमभिमतफलवितरणगुरुमुमया युक्तम् ।। ६०६ ॥
इति प्रत्युदाहरणम् ।
इति श्रपवाहः २६३.
२६४. प्रथ मागधी
अत्रैव वसुभगणानन्तरं गुरुद्वयदानेन मागधीवृत्तं भवति । तल्लक्षणं यथा - भगणाष्टकगुरुयुगला रसयुगवर्णा रसाग्निराशिकला । पन्नगपिङ्गललपिता विज्ञेया मागधी सुधिया ।। ६०७ ।।
यथा -
माधव विद्य दियं गगने तव संतनुते नवकाञ्चनरञ्जितवस्त्र, नीरवृत्तमिदं गगनेऽपि च भावयति प्रसभं तव देहमहास्त्रम् । इन्द्रशरासनजालमिदं तव वक्षसि भावयते' वनमालतिमालां, मानय मे वचनं कुरु सम्प्रति सुन्दर चेतसि भावयतामिह बालाम् ||६०८॥ इति मागधी २६४.
इयमेव च द्वात्रिंशत्कलका मागधी सवया इत्युक्ता पूर्वखण्डे । अत्र तु गुरुद्वयमधिकमिति षशत्कलेति, ततो भेदः । वर्णप्रस्तारत्वाच्च षड्विंशत्यक्षरनियमः । * प्रतएव च जातिवृत्तसांकर्येण छन्दः सन्दर्भवैचित्री मावहतीति सर्वत्र रहस्यं चाकसीति छन्दः शास्त्रेषु । *
१. ख. संतनुते । * * चिह, नगतोऽयं पाठः क. प्रतो नास्ति । *टिप्पणी - १ छन्दःशास्त्र हलायुधटीकायां प्र० ७, कारिकाया ३२ उदाहरणम् ।