SearchBrowseAboutContactDonate
Page Preview
Page 310
Loading...
Download File
Download File
Page Text
________________ ५० ६००.६०४ ] १. वृत्तनिरूपण -प्रकरण [ ५७७ यथा यथा श्रीगोविन्दः सर्वानन्दश्चित्ते ध्येयः वित्तं मित्रं स्वाराज्यं स्त्रीवर्गः सर्वो हेयः, वृन्दारण्ये गुजद्भुङ्गे पुष्पैः कीर्णे श्रीलक्ष्मीनाथः श्रीगोपीकान्तः शश्वद्गेयः । द्वारे द्वारे व्यर्थं संसारे रे रे रे भ्रामं भ्रामं कामं किं कुर्यास्त्वं क्षामं चेतः, मायाजालं सर्वं चैतत् पश्यच्छावन्भ्राम्यन्नानायोनी पूर्वं खिन्नोऽसि त्वं भ्रातः ॥ ६०० ॥ इति श्रीगोविन्दानन्द: २६१. २६२. प्रथ भुजङ्गविजृम्भितम् आदौ यस्मिन् वृत्ते काले' मगणयुग-तनननगणी रसौ च लगौ ततो-२ वस्वीशाश्वच्छेदोपेतं चपलतरहरिणनयने विधेहि सुखेन वै । पादप्रान्तं यस्मिन् वृत्ते रसनरनयनविलसितं मनोहरणं प्रिये !, नागाधीशेनोक्तं प्रोक्तं विबुधहृदयसुखजनकं भुजङ्गविजृम्भितम् ।। ६०१ ।। ध्यानैकाग्रालम्बादृष्टिष्कमलमुखि ! लुलितमलकैः करे स्थितमाननं, चिन्तासक्ता शून्या बुद्धिस्त्वरितगतिपतितरशनातनुस्तनुतां गता। पाण्डुच्छायक्षामं वक्त्रं मदजनति रहसि सरसा करोषि न संकथा, को नामायं रम्यो व्याधिस्तव सुमुखि ! कश्रय किमिदं न खल्वसि नातुरा' ॥ ६०२॥ यथा वा, हलायुधे'*_ यैः सन्नद्धानेकानीकैनरतुरगकरिपरिवृतैः समं तव शत्रवः, युद्धश्रद्धालुब्धात्मान'स्त्वदभिमुखमथ गतभियः पतन्ति धृतायुधाः । तेऽद्य त्वां दृष्ट्वा संग्रामे तुडिगनृपकृपणमनसः पतन्ति दिगन्तरं, किं वा सोढुं शक्यं तस्तैर्बहुभिरपि सविषविषमं भुजङ्गविज़म्भितम् ॥ ६०३ ।। ___ इति प्रत्युदाहरणम् । इति भुजङ्गविजृम्भितम् २६२. २६३. अथ अपवाहः आदी मं तदनु च कुरु सहचरि ! रसपरिमितमिह नगणं गण्यं, हस्तं संविरचय सखि ! विकचकमलमुखि ! तदनु च रुचिरं कर्णम् । विश्रामः सुतनु ! सुदति ! नवरसरसशरपरिमित इह बोभूयात्, नागो जल्पति फणिपतिरतिशयमिति रतिकृतिधृतिरपवाहः स्यात् ।। ६०४ ।। १. ख. बाले। २. ख. तनो। ३. ख. वृत्तं । ४. ख. सारसा। ५. ख. चातुरा। ६. ख. लघ्वात्मानः । *टिप्पणी-१ छन्दःशास्त्रहलायूधटीकायां प्र०७, कारिकाया ३१ उदाहरणम् ।
SR No.023464
Book TitleVruttamauktik
Original Sutra AuthorN/A
AuthorVinaysagar
PublisherRajasthan Prachyavidya Pratishtan
Publication Year1965
Total Pages678
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size35 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy